SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् ॥२२४॥ मुन्याश्रममिति चय, हर्षाश्रुधौतकल्मषः । द्राक्षाकुजे प्रविश्याथ, विशश्राम महीपतिः ॥ ४७ ॥ श्रुत्वाऽथ दक्षिणेनैष, मिथः संलपनं स्त्रियोः । किमेते वक्ष्यतोऽत्रेति, सावधानोऽभवत्क्षणम् ॥ ४८ ॥ ततः प्रियंवदा प्राह किञ्चिद्वेत्सि प्रियङ्करि । ? । साह किं तत् १ परा प्रोचे, न चेज्जानासि तच्छृणु ॥ ४६ ॥ गते कुलपती कण्वे, प्रभासक्षेत्रमात्मना । वरः कोऽपि कुलीनो मे, पुत्र्यै सम्पद्यतामिति ॥ ५० ॥ तपः शक्त्या जगत्सर्वमन्यथाकतु मीश्वरः । आतिथेयीं जिघृक्षुः स, दुर्वासा वनमाययौ ॥ ५१ ॥ आगत्य स स्थितः कण्वेश्मनः प्राङ्गणे क्षणम् । आतिथ्येऽधिकृता पित्रा, नापश्यत्तं शकुन्तला ॥ ५२ ॥ क्षणं स्थित्वा स दुर्वासा, न दृष्टोऽस्म्यनयाप्यहम् । शपाम्येनां दुरात्मानमवलेपदुराशयाम् ।। ५३ ।। प्रभावस्तपसो मेऽस्ति, चेतत्स्वरूपगर्विते ! । प्रेम्णा स्वीकृत्य पूर्व त्वां विस्मृत्य त्यजतु प्रियः ॥ ५४ ॥ इत्युक्त्वा व्याघुटन् सोऽथ, शुश्रुवे ददृशे मया । धावित्वा चाहमेतस्य पादयोः पतिताऽवदम् ।। ५५ ।। व्यग्रा व्यापारभारेण, नाद्राक्षीत्त्वामियं मुने!। नावज्ञया न गर्वेणेत्यर्थे स्वच्छपथो मम ॥ ५६ ॥ तत्प्रसीद पुनर्देह, तपस्विन्यै ह्यनुग्रहम् । दृष्टः कोपः प्रभूणां हि प्रणामान्तः परं न यत् ॥ ५७ ॥ इति मृदुक्तिभिः प्रोक्तः, शान्तीभूय मुनिः स हि । ददावनुग्रहं शापनिवर्त्तनाय शक्तितः ॥ ५८ ॥ पतिप्रदत्ताभिज्ञानाङ्गुलीयकस्य दर्शनात् । स्मरिष्यति पतिभूयः, कार्यो नैवात्र संशयः ॥ ५६ ॥ आतिथेय्या प्रसाद्यासौ, द्राक् शकुन्तलया नतः । ततोऽदादाशिषं तस्यै, तनयोत्पत्तिलग्निकाम् ॥ ६० ॥ " प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता शकुन्तला कथा । ॥२२४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy