SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि प्रथमः परिच्छेदः चरित्रम् ॥२२३॥ अजापुत्रकथान्तर्गता शकुन्तलाकथा। चलिताः समिदादाने, कण्वशिष्यास्तपस्विनः । मा मेति वाचमूचाना, द्राग मृगस्यान्तराभवन् ।। ३३ ॥ राजाऽपि तापसान् वीक्ष्य, मृगाङ्गरक्षकानिव । सञ्जहार जपान्यश्चदास्यो बाणं क्रुधा सह ॥ ३४ ॥ लज्जासज्ज स्वयं भूपमृचुस्ते तापसा मृदु । महीश ! नायमाचारस्त्वादृशां सुनयस्पृशाम् ॥ ३५ ॥ त्वद्धनुदप्पैकण्डूलदोदण्डानां महीभुजाम् । शरीराज्जीवमाक्रष्टु', व्यापारयति सायकान् ॥३६॥ ईदृशे कान्दिशीकेऽस्मिन्नशस्त्रे दीनचक्षषि । आरण्यके मृगे मूलादकृतागसि मा कुपः ॥ ३७॥ अयं च क्रीडाहरिणो, बालणामितस्ततः। परिभ्राम्यद्विशेषेण, पोषणीयो भवादृशाम् ॥३८॥ चललक्ष्यकृतव्याजोऽप्येतान्मा त्वं वधीमृगान् । अचलं शिवसौख्यं यद्धिसा लुम्पति देहिनाम् ॥ ३६॥ एतदध्यवसायेन, कल्मषं यदुपाजितम् ।। दृष्ट्वाऽस्मदाश्रमं तस्मै, राजन् ! देहि जलाञ्जलिम् ॥ ४०॥ तपस्यन्त्यषयो यत्राधीयते यत्र चागमः । तत्र श्रद्धालुरागच्छेद्यथा मुच्येत पाप्मना ॥ ४१॥ तद्गच्छताश्रमं यूयं, वयं यामः समित्कृते । तुभ्यमाश्रमगुरवे, कर्ताऽऽतिथ्यं मुनेः सुता ॥ ४२ ॥ इत्यूचित्रांसो मुनयः, प्रणतास्तेन भूभुजा । प्रययुयंत्र यातव्यमीक्षमाणा भुवस्तलम् ॥ ४३॥ राजाऽपि सोऽथ दुष्यन्तो, मुक्त्वा रथमुपाश्रमम् । समित्रःप्राविशवृक्षान् , वीक्षमाणः फलेग्रहीन् ॥ ४४ ॥ मुनिकुमारकांस्तल्लात्कुम्भकैराहृताम्भसः । सम्यक् सपरिकरान स्पर्धाबन्धं सिञ्चतस्तरून् ॥४५॥ सार्थ बालर्षिभिः कीरान , पठतः क्रीडतोऽपि च । मुनीनां पुरतः स्वैरं, विश्वासाल्लालतो मृगान् ॥ १६ ॥ | ॥२२३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy