________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेदा
॥२२२॥
अजापुत्रकथान्तर्गताशकुन्तलाकथा।
हेतोः कुतोऽपि येन स्यात् , कृतस्वार्थस्य विस्मृतिः । दुष्यन्तस्येव शापेन, विस्मृता हि शकुन्तला ॥ १६॥ . कामलेखा ततः प्राह, त्वं दुष्यन्तकथामिमाम् । कथय प्रथयात्यर्थ, विनोदं मत्सखी प्रति ॥२०॥
राजाह कौतुकं चेदः, श्रूयतामवधानतः । अस्तीह भारते क्षेत्रे, साकेतं नाम पत्तनम् ॥ २१ ॥ भारतीस्पईया लक्ष्मीर्यत्र प्रतिगृहं स्थिता । यं ब्राह्मी सगुणं चके, श्रीराश्लिष्यति तं खलु ॥ २२ ॥ तत्राऽभूत्प्रतिसामन्तप्रणत्युन्मतविक्रमः । दुष्यन्तो नाम भूमीशो, वासागारं रिपुश्रियाम् ॥ २३ ॥ चललक्षभिदाभ्यासाङ्गदाट्य क्षुत्तपाजयः । रथाधिरूढो राजाऽसौ, चचाल मृगयां प्रति ॥ २४ ॥ प्रतापेनादित्य इव, रथारूढो व्रजन्नसौ । मृगमेकं ददर्शाऽऽराद्दुष्यन्तस्तापसाश्रमात् ॥ २५॥ तमनु मुक्तवल्गाश्वोऽब्धौ नौरिवेष्टवायुना । दूरेऽभूद्यत्पुरः पृष्टे, दवयंस्तद्रथो ययौ ॥ २६ ॥ रथनिर्घातमाकये, मृगः प्रैक्षिष्ट सम्भ्रमात् । तृणानि सो जग्धा त्यक्त्वाऽधावीद्रथाग्रतः ॥ २७॥ अहं चैतौ रथाचौ वा, वेगवन्तावितीक्षितुम् । प्रतिकार इवेभस्य, दधावे पुरतो मृगः ॥ २८ ॥ एकस्यैव मृगस्यास्य, कियत्येषा गतिर्हि नौ । इतीव तौ रथहयावन्वेणं द्रुतमीयतुः ॥ २६ ॥ यथा मार्ग पुरो गच्छन् , पादैर्जातक्षणैरिव । ग्रीवाभाद्रथं पश्यन, याति भूमौ स खेऽपि च ॥३०॥ स्वग्रश्मिवस्त्राभ्यां, बद्धाभ्यामेणवर्मणि । आकृष्टाविव शीघ्र तो, रथाश्वौ प्रापतुमृगम् ॥ ३१ ॥ दुष्यन्तनृपतिर्वाणमाकान्तं प्रपूर्य सः । प्राप्तलक्ष्यपदं ह्यणं, प्रति यावद्विमोक्ष्यति ॥ ३२ ॥
| ॥२२२॥