________________
चन्द्रप्रमस्वामि
प्रथमः परिच्छेदः
चरित्रम्
॥२२१॥
दूरस्थो योऽशृणोदेतलक्ष्मीवुद्धिन पोऽथ सः। उपेत्य तत्सखीयुग्मं, पप्रच्छ तत्र कारणम् ॥ ५॥ अत्यर्थ वार्यमाणाऽपि, किमेषा युवयोः सखी। विच्छाययति वनाज, कवोष्ण रोदनाश्रुभिः ॥ ६ ॥ कामलेखाह कोऽन्यस्त्वां, विनाऽन्यदुःखदुःखितः । भूयो भूयः स्वयं पृच्छेत् , परात्तिं सात्विकोत्तम ! ॥ ७॥ प्रच्छकश्चिन्तयत्येवं, यन्मयाऽअच्छि चेदयम् । तन्ममैव हि कर्त्तासी, स्वपरित्राणयाचनाम् ॥८॥ इति तुच्छस्वभावत्वात् , परत्राणे गतादरः । परोपकारतो जन्म, करोति सफलं नहि ॥६॥ ततश्चाख्यायते तुभ्यं, दृश्यसे येन वत्सलः । इयं हि नः सखी प्राप्तगर्भा कान्तेन भत्सिता ॥१०॥ यदयं हि न मे गर्भो, दुःशीले । दुष्पतिव्रते । । याहि निस्सर मद्गेहादित्येनां निरवासयत् ॥ ११ ॥ आययौ च पितुर्वेश्म, रोदनोस्छूनलोचना । ज्ञात्वा पित्राऽपि जामातुरुक्ति निर्वासिता ह्यसौ ॥१२॥ किं करोतु वराकीयं, सुशीलाऽपि प्रियोज्झिता । अभीष्टा भत्त रेव स्त्री, गौरवं लभतेऽन्यतः॥ १३ ॥ नरकेऽपि गति स्ति, यस्य जीवस्य स स्फुटम् । सर्वदुःखनिधौ स्त्रीत्वे, दुष्कर्मभिर्नियोज्यते ॥ १४ ॥ स्वेच्छया वर्तते चेत स्त्री, दुःशीला सुनयापि सा । दीना पराभवं याति, तत्सत्यमबला खलु ॥१५॥ राजाह च तदत्रासौ, कान्तोऽस्या नापराध्यति । तस्य विस्मृतिरेतस्यामपराधविधायिका ॥१६॥ तदभिज्ञानपूर्वाभिरुक्तिभिमण्डनैरथ । तद्विस्मृतिसपत्नीयमुत्पाद्या स्मृतिरेव हि ॥ १७॥ स्मृत्वा विज्ञाततत्वोऽपि, चेदेनां नाभिमन्यते । तदाऽस्य दौष्टयमेवास्ति, सत्पुमानेव सोऽन्यथा ॥ १८॥
अजापुत्रकथान्तर्गता शकुन्तलाकथा।
R
॥२२॥