________________
प्रथम: परिच्छेदः
चन्द्रप्रभस्वामि चरित्रम् ॥२२०॥
अन्यत्र मानमिच्छन्ति, गुरुभ्योऽपि नराः परम् । योषिद्भ्यस्तु, सहन्त्येते, दुवैचोघातलाघवम् ॥ २०४॥ या मायामन्दिरं या च, याचतेऽन्यं रता परे । लोहनौरिव संसाराम्भोधौ या मज्जयत्यहो।॥२०५॥ विरक्तिहेतौ तस्यां हि, सुरागो मे कियानभूव । येनात्तस्नेहमोहेन, वाहितस्तदुपानही ॥ २०६॥ तदलं मेऽनया येन, पराभूतोऽस्म्यहं यया । अथवैषैव मे हेतुर्भवं प्रति विरक्तये ॥ २०७॥ यद्यहं स्नेहललितो, नास्यां स्यां न पराभवः । तदा स्यात्तन्निजे राज्ये, मनो यायामधो भुवि ॥२०॥ इत्यालोच्य दृदं राजा, स्वमनोमन्त्रिणा सह । रत्नमालासुतायादाद्राज्यमादात् स्वयं व्रतम् ॥ २०१॥
अजापुत्रकथान्तर्गता शकुन्तलाकथा।
इति रत्नमालाकथा समाप्ता॥
॥ दुष्यन्त-शकुन्तलाकथा ॥ इतीत्थं कुब्जिके राजा, यथायं रत्नमालया। वशीकृत्योपानही स्वे, वाहितःप्रेममोहितः॥१॥ तथाऽन्यापि सुबुद्धिः स्त्री, प्रेम्णा वा स्त्रीगुणेन वा । विनयेन वशं नीत्वा, छन्देन नर्तयेत्प्रियम् ॥२॥ एषा तु नौ सखी मुग्धा, क्लीबा वक्तुमुपप्रियम् । लीलयैव पराभूता, कान्तेनास्मृतिमीयुषा ॥३॥ कुब्जिका प्राह किं कार्य, कामलेखेऽधुना सखि! १। एनां प्रियसखीं द्रष्टु, ताम्यन्ती येन नोत्सहे ॥ ४ ॥
१२२०॥