SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि चरित्रम् ॥२१६॥ स्वानुरूपं सुतं प्रेक्ष्य, सम्बन्धमस्मरंश्च सः । राजा सन्देहमापनश्चिन्तासन्तान भागभूत् ॥ १९० ॥ ततः सन्देहमुच्छेत्तु, नीतिसारः स मन्त्रिराट् । आनाय्य दर्शयामास, तानि पत्राणि भूभुजे ॥ १६९ ॥ राजा ददर्श तेष्वेवं प्रारभ्य प्रथमं दिनम् । प्रश्नोत्तरकथा वार्त्ता, श्लोकं गाथां प्रहेलिकाम् ॥ १६२ यद्दिनोक्तं यथोक्तं च, साभिज्ञानं तथैव तत् । वाचयित्या ततो राजा, खेदविस्मयमासदत् ॥ १६३ ॥ कथं सा मन्त्रिपुत्रीयं, नर्त्तकीदम्भमीयुषी । नवोढत्वे प्रतिज्ञातं यन्मत्तस्तदचीकरत् ॥ १६४ ॥ सङ्ग्रामेषु द्विपः कष्टात् खड्गाखड्गियुधा जिताः । मया हि सार्वभौमेन, दोर्दर्पोत्सर्पदात्मना ॥ १६५ ॥ अनया तु स्त्रिया बुद्धिसम्पन्नमायया क्षणात् । अनायासेन धीमत्या, तावानेष जितोऽस्मि धिक् ॥ १६६ ॥ अथवा विषयी को हि, कामिनीभिर्जितो नहि । यतस्ताः शस्त्रसर्वस्वं विजिगीषोर्मनोभुवः ॥ १६७ ॥ एताभिर्विजितः पूर्व, मिथ्यावाग्भिर्नरस्ततः । अन्यैः कुव्यसनैः सौख्यात्, स्त्रीरतो जीयते खलु ॥ १६८ ॥ मातु पितुर्नैव भ्रातुर्न स्वजनस्य च । न गुरूणां करोत्याज्ञां नरः स्त्रीव्यसनेरितः ॥ १६६ ॥ अपि तु कृत्रिमप्रेमपूर्णचूर्ण वशीकृतः । स्त्रीणामाज्ञां वहत्येष, स्त्रीजितः शिरसा स्वयम् ॥ २०० ॥ वेत्ति कृत्यमकृत्यं वा, नहि स्त्रीवशगो नरः । पराभूतिं परन्त्वेति, जनादसदृशादपि ॥ २०१ ।। तस्य धर्मरतिनेष्टा, कुलाचारेऽप्यनादरः । तस्य लज्जाभये न स्तः स्त्रीवशो यो हि मानवः ॥ २०२ ॥ विप्रतार्य नरं प्रेम्णा स्वदासं कुर्वते स्त्रियः । तदाज्ञां कुरुते सोऽपि स्वापराधभयादिव ॥ २०३ ॥ प्रथमः परिच्छेदः अजापुत्रक थान्तर्गता रत्नमाला कथा । ॥२१६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy