SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि प्रथमः परिच्छेद चरित्रम् ।२१८॥ भ्रमं भ्रमं चतुर्दिक्षु, तेप्यागुः सादिनः पुनः। तद्वियोगान्नृपोऽङ्गेषु, प्राप तापं मनःक्लमात् ॥ १७६ ॥ विना तामक्षमः स्थातु, तद्रूपमलिखत्पटे । सम्पश्यन् स चित्रपटं, दिवसानत्यवाहयत् ॥ १७७ ॥ इतश्च रत्नमाला सा, समये सुषुवे सुतम् । अदाच तस्य बालस्य, नाम क्षेमकरस्त्विति ॥ १७८॥ लाल्यमानो बभूवैष, बालकः क्रमशो महान् । नीतिसारस्ततोऽवादीद्रत्नमाला सुता निजाम् ॥ १७६ ॥ वत्से ! त्वं नृपतेः क्षुद्रादेशं यथोक्तमेव हि । अकृथास्तत्सुतं लात्वा, चलेदानीं नृपं प्रति ॥ १८०॥ ततः सा मितशृङ्गारा, समारुह्य सुखासनम् । अङ्के निवेश्य पुत्रं स्वं, प्रतस्थे नृपति प्रति ॥ १८१॥ नीतिसारोऽपि भूयासि, तानि पत्राणि सादरम् । आरोप्य वाहने निन्ये, राजसंसदि बुद्धिमान् ॥ १२॥ अग्रे भूत्वा ततो भूपं, नीतिसारो व्यजिज्ञपत् । नाथ ! त्वत्तनयोऽभ्येतीति दिष्ठथा बर्द्धसेऽधुना ॥१८६॥ कुतः कथं सुतो मेऽभून्मन्त्रिनिति ससम्भ्रमम् । राज्ञोक्ते मन्त्रिराट् तत्रानाययत् ससुतां सुताम् ॥ १८४ ॥ अकथयन्नृपायैवं, राजन्नेषा तब प्रिया । अयं च ते सुतः सम्यक् , स्मर त्वं नान्यथा ह्यदः ॥१८॥ चिन्तयन्नपि नास्मार्षीद्रत्नाङ्गदनपोऽथ ताम् । रत्नमालां व्यलोकिष्ट, दृशा कूणितया मुहुः ॥ १८६॥ नाज्ञासीद्रत्नमाला तां, नर्तकीत्वे ह्यमम्भवात् । अन्य व्यतिकरं कस्याश्चिदपि नाऽस्मरत् स्त्रियाः ॥ १८७॥ उवाच च नृपो मन्त्रिन मे स्मरति किश्चन । अजानंश्च कथङ्कार, स्वीकुवें ससुतामिमाम् ॥ १८८॥ रत्नमाला तु नीरङ्गीप्रच्छादितवरानना । नातिदुरे स्थिता पुत्रं, दर्शयन्ती पुरोऽभवद् ॥ १८ ॥ अजापुत्रकथान्तर्गता रत्नमालाकथा। ॥२१॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy