________________
प्रथमः
चन्द्रप्रमस्वामि
परिच्छेदः
चरित्रम्
॥२१७॥
पित्रे साऽचीकथवृत्तं, राजसङ्गमजं निजम् । यथोक्ता नृपवाचश्व, पत्रन्यस्ता अदर्शयत् ॥१६॥ सन्तुष्टः सोऽपि पत्राणि, न्यासीकृत्य मुमोच तु । बर्द्धमानं क्रमाद्गर्भ, रत्नमालाप्युवाह सा ॥ १६३॥ ततश्च स द्वितीयेऽहि, तथैव जिनसमनि । नृपस्तदनुरागेण, ययो तत्र द्रुतं द्रुतम् ॥ १६४॥ नाश्रीषीसत्र सङ्गीत, नापश्पत्तत्र तां प्रियाम् । किन्तु देवगृहं शून्यं, वीक्षाभूच्छ्न्य एव सः ॥ १६५॥ वीक्षमाणः क्षणं मार्ग, तस्थौ तत्र कियन्नृपः । ज्ञात्वाऽथ ज्यायसी रात्रिं, राजा तत्सौधमागमत् ॥ १६६ ॥ तथापि पिहितद्वारमारुह्यान्तः प्रविश्य च । ऐक्षिष्ट परितो लोकं, किन्त्वद्राक्षीन किश्चन ॥१६॥ यथास्थानमुपेत्याथ, रत्नमाला व्यलोकयत् । चन्द्रिकामिव दर्शता, ददर्श क्वापि तत्र न ॥ १६८॥ वैषाऽगात्सह दासीमिरननुज्ञाप्य मामपि । इति स्नेहात्स तत्रैव, तस्थौ स्थानममत्वतः॥१६॥ तथैव चोषसि प्राप्ते, राजाऽगादात्मनो गृहम । उपविश्य सभायां स, नीतिसारमदोऽवदत ॥१७॥ मन्त्रिन ! केनेदमद्वैत, विदधे जिनमन्दिरम् । तत्राऽभूनतकी या च, सा ययौ व कथं ननु ? ॥ १७१ ॥ मन्त्र्युचे नाथ ! देवौकः, कारितं त्वत्प्रसादतः । स्वपित्रोः श्रेयसे स्वात्मद्रव्यरेतन्मया खलु ॥ १७२ ॥ या चात्र नर्तकी ह्यासीत्सा तु वैदेशिकी प्रभो! । कुतोऽप्यागत्य तत्राभूनर्तकी द्रव्यलोभतः ॥ १७३॥ ततश्चाद्यौष्टिकाः केचिदागत्यास्यै किमप्यथ । निवेद्य प्रसाद्य तोषातामनेषुः पुनः क्वचित ॥ १७४॥ मह्य किं न त्वया मन्त्रिन ! विज्ञप्तस्तद्गतिस्तदा । इति ब्रुवन्नृपोप्याश्वं, प्राहिणोत्तामनुद्रतम् ॥ १७५ ॥
अजापुत्रकथान्तर्गतारत्नमालाकथा।
| ॥२१७॥