SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् २१३॥ अकारि रम्यं केनेदं मन्दिरं श्रीजिनेशतुः ९ । अमन्दानन्दसङ्गीतकोविदाः का इमाः स्त्रियः १ ॥ १०६ ॥ रूपेणानेन सङ्गीतेनानेन निश्चयादिमाः । भवन्ति नैव मानुष्यः, किन्त्विमा देवयोनयः ॥ १०७ ॥ हा !! मे पुरतोऽप्येता, जग्मुः सङ्गीतयोषितः । एकोऽस्थामहमेवात्र, गीतमोहितमानसः ॥ १०८ ॥ भवतु पुन प्यागच्छेयुरिमा इह । ततो द्रक्ष्याम्यहं श्वोऽपीत्यालोच्य सौधमागमत् ॥ १०६ ॥ तत्सङ्गीतं त्रिस्ताच ध्यायन्नेव महीपतिः । तत्यजे निद्रया रात्रौ दिवा च राज्यचिन्तया ॥ ११० ॥ राज्ञः प्रेक्ष्य स्मरावस्थामस्तमेत्य स्वयं रविः । कामिकार्यसहायिन्या, रात्रेरवसरं ददौ ॥ १११ ॥ निशास्त्रीराज्यमेतर्हि, नात्र प्रतिभटो भवेत् । समयज्ञस्तमो मन्त्री, व्यानशे भुवनोदरम् ॥ ११२ ॥ लावण्यं मे स्वभावेन, न स्त्रीभ्योऽपहृतं मया । इति विष्णुपदस्पर्शान्निःशङ्कः प्रोदगाच्छ्शी ॥ ११३ ॥ शरीरापाटवन्याजाद्विसृज्याशु सभाजनम् । आदाय कृत्रिम निद्रां पल्यङ्केऽशेत भूपतिः ।। ११४ ॥ यथास्थानं गते लोके, निद्राभाज्यङ्गरक्षके । उत्थाय शनकै राजा, सौधादवातरुद्भुवि ।। ११५ ।। आशूत्पाटितपादाभ्यां गच्छन्नुत्सुकमानसः । तथैव पिहितं द्वारमालोक्य वप्रमासदत् ॥ ११६ ॥ तथैव च पुरो नाभिमूनोः सङ्गीतकं मृदु । कुर्वत् स्त्रीवृन्दमद्राक्षीदश्रौषीच्च नृपो मुदा ।। ११७ ॥ शनरुत्तीर्य वप्राग्रात्, स्तम्भच्छायातिरोहितः । अपश्यत् रत्नमालां तां नृत्यन्तीमुर्वशीमित्र ॥ ११८ ॥ अभूच्च नृपतेस्तस्यामनुरागोऽतिदुस्सहः । तादृग्रूपं कला सा च, कस्य नोन्मादकारणम् १ ॥ ११६ ॥ प्रथमः परिच्छेदः अजापुत्रकथान्तर्गता रत्नमाला कथा । ॥२१३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy