SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः ॥२१४॥ यदर्थमयमारम्भः, कथं सोऽद्यापि भूपतिः १ नायातीत्यभितो रत्नमाला स्वां दृष्टिमक्षिपत् ॥ १२०॥ दक्षया वक्रया भूयः, प्रेषितागतया दृशा । महीशो रत्नमालाय, हस्ते धृत्वा समाlत ॥ १२१॥ दृष्टश्च नरपो रत्नमाला प्रारम्भमात्मनः । सार्थकं मानयामास, स्वां बुद्धि प्रशशंस च ॥ १२२ ॥ विसृज्य च तदेवेषा, प्रेक्षणीयकमुत्सुका । चचाल सा सखीहस्तन्यस्तस्वकरपङ्कजा ॥ १२३॥ नातिदरस्थितस्तस्यामाहिताक्षोऽनुरागतः । तदङ्गरागसौरभ्यादिष्टमार्गों ययौ नृपः ।। १२४॥ तामनुप्रविवेशेष, तत्सौधे रत्नराजिनि । वेश्ययेव तया सोधप्रतिपत्त्याऽन्वरज्यत ॥ १२५॥ रजनीविरतौ राजा, तत्सौधात्सौधमात्मनः । वेगादागत्य सुष्वाप, पल्यके पूर्ववत् किल ॥ १२६ ॥ एवं च नित्यमागत्य, सङ्गीतं वीक्ष्य भूपतिः । एकाकी रत्नमालायाः. सौधे शेतेऽनुरागतः ॥ १२७॥ रत्नमाला च राजाऽसौ, यद्भापते निशिस्थितः । साभिज्ञानं हि तत्सर्व, लिखति स्म दिने दिने ॥ १२८ ॥ मा मुक्त्वा जिनचैत्येस्मिन्नागन्तव्यं पुनगृहे । दासीः सड्केत्य सा त्वेवं, रत्नमाला ययौ जिनम् ॥ १२६॥ सुखासननरान् देवगृहादहिर्विमुच्य सा । प्रविश्यारब्धसङ्गीतारज्यत स्वयमेव च ॥ १३०॥ परिपूर्णकला चैक, परं च पुरतोऽर्हतः । रञ्जनीयो नृपश्चेति, रङ्गकारणसन्ततिः ।। १३१॥ तथैव च नृपोऽभ्येत्य, कृताङ्गरागविभ्रमः । संवीतदिव्यनेपथ्यस्तस्थौ स्तम्भतिरोहितः ॥ १३२ ॥ सङ्गीतविरतौ जग्मुः, स्त्रियस्ताः पार्श्वगायिकाः । यद्रत्नमालया पूर्वमादिष्टा गमनेऽभवत् ॥ १३३॥ अजापुत्रक थान्तर्गता रत्नमालाकथा। ॥२१४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy