SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः सत्वेऽजापुत्रकथा अजापुत्रे समायाते, ज्योतिः किश्चिदगादधः । सोऽपि तन्मार्गगो निभॊर्विवरान्तः समाविशत ॥१५॥ यथा यथैत्यजापुत्रो, ज्योतिर्याति तथा तथा । अधोऽधो यावदायाता, सर्वतः पृथिवी समा ॥१५२॥ ततो ज्योतिस्तिरोभूतमाविर्भूता च कापि पू: । किमेतदिति सम्भ्रान्तस्तस्थौ ध्यायनजासुतः ॥१५॥ क १ गतं तच्चलं ज्योतिर्येनानीतोऽस्म्यधस्तथा । पू: कैषा ? विवरं तत्व ?, यस्मादहमिहाऽऽगमम् ॥१५॥ शाखामृगनरश्चैष, हा ! पश्चादेककः स्थितः । विना मां स कथं भावी ?, मदेकशरणो हि सः॥१५शा किङ्करोमि ? क्व वा यामि ?, दुस्स्थावस्थाविडम्बितः । इत्येवं चिन्तयित्वाऽसौ, चचाल नगरी प्रति ॥१५६ । चूर्णीकृत्य फलं पट्यां, बद्ध्वा हारस्र कटौ । प्रभाते प्रविशन् पुर्याः, पद्रेऽद्राक्षीदिमां दशाम् ॥१५७॥ उन्नदन्त्युन्मुखीभूय, शृगालाः शोकशंसीनः । फेखुर्वन्ति शिवा घूका, निःशङ्क वासयन्ति च ॥१५८॥ काककोलाहलो व्योनि, कबरीकलहो भुवि । रटन्ति सारमेयाश्च, युध्यन्ते भृशमोतवः ॥१५॥ पश्यन्ने स्मयापन्नः, प्राविशत्पुरगोपुरम् । यथा बहिस्तथैवान्तरपश्यदुर्दशां पुरः ॥१६०॥ तन्मार्गेऽङ्गारभाजीव, न सञ्चरति पूर्जनः । सिद्धौ.सिद्धवद् यो यत्राऽऽसीनः स तत्र निष्क्रियः॥१६॥ नापणे वणिजः सजा, न पूजा देववेश्मसु । न पाठः पाठशालासु, क्रीडन्ति शिशवोऽपि न ॥१६२।। इति पश्यंश्चतुर्दिक्ष, स शून्यामिव तां पुरीम् । इतस्ततः परिभ्राम्यन् , राजप्रासादमागमत् ॥१६३॥ समीक्ष्याऽऽरक्षक द्वारे, नियुक्तमन्वयुक्त सः । किमत्र दृश्यते लोकः, शोकशङ्कुसमाकुलः १ ॥१६४॥ . ॥१४॥ K ॥१४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy