________________
चन्द्रप्रभस्वामि
प्रथमः . परिच्छेदः
चरित्रम्
सत्त्वेऽजापुत्रकथा
तत्प्रसीद गृहाण त्वमक्षतं फलमात्मनः । एना मुक्तास्रजं चापि, गृहाणाऽनुगृहाण माम् ॥१३८॥ अतःप्रभृति दासोऽस्मि, भृत्योऽस्मि किङ्करोऽस्मि ते । दत्तो नाथ ! त्वया यन्मे, दुष्प्रापो मानुषो भवः ॥१३६।। त्वया सह समेष्यामि, छायावद्यत्र यास्यसि । इत्युदीयं ततः सोऽस्मै, सहारं फलमार्पयत् ।।१४०॥ अजापुत्रः स तां वाचमाकण्डै ति व्यचिन्तयत् । ममैतद्देवतादत्तफलस्य प्रथम फलम् ।।१४१॥ गतं तैरश्च्यमेतस्य, रम्यं मत्यत्वमागतम् । एकाकिना न गन्तव्यमित्यर्थेऽभूत्सखा च मे ॥१४२ ॥ देवताधिष्ठितैमन्त्रफलचूौषधाम्बुभिः । जन्तो रूपपरावतः श्रूयते नात्र संशयः ॥ १४३॥ इत्यालोच्य समादाय, तदर्पितफलस्रजौ । चचाल साधतेन, शाखामृगनरेण सः ॥ १४४ ॥ वीक्ष्याऽस्ताचलचूलस्थमजापुत्रस्त्वहर्पतिम् । शाखामृगनरं प्रोचे, मुग्धवैदग्ध्यवागिति ॥१४॥ हासोच्छ्वासितकैरवोद्यदलिनीध्वान-वागीतिभिः, संसूच्याऽनटस्तमोयवनिका यत्प्राप्य निष्क्रामति । तन्नक्षत्रविचित्रपात्रसुभगव्योमै करङ्गाङ्गणे, तामुत्क्षिप्य वयस्य ! पश्य भविता राज्ञः प्रवेशोऽधुना ॥१४६।। प्रदोषसमये देवकुलिका तावपश्यताम् । भीषणाऽत्राऽहमेवेति, भुवोक्षिप्ताङ्गुलीमिव ॥१४७॥ अथ तौ खिन्नसर्वाङ्गी, वासार्थ तत्र जग्मतुः । शाखामृगनरः सुप्तो, जागत्ये जासुतः पुनः॥१४॥ तदा च यक्षवेश्मान्तरकस्मादतिनिभरः । समुद्दयोतोऽभवद् ध्वान्तकान्तारदावपावकः । १४६॥ अजापुत्रस्तमुद्दयोतं, वीक्ष्य दक्षजनाग्रणीः। उत्थाय शनस्तत्र, जगाम भ्रमसम्भृतः ॥१५॥
R॥ १३॥