SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि प्रथमः . परिच्छेदः चरित्रम् सत्त्वेऽजापुत्रकथा तत्प्रसीद गृहाण त्वमक्षतं फलमात्मनः । एना मुक्तास्रजं चापि, गृहाणाऽनुगृहाण माम् ॥१३८॥ अतःप्रभृति दासोऽस्मि, भृत्योऽस्मि किङ्करोऽस्मि ते । दत्तो नाथ ! त्वया यन्मे, दुष्प्रापो मानुषो भवः ॥१३६।। त्वया सह समेष्यामि, छायावद्यत्र यास्यसि । इत्युदीयं ततः सोऽस्मै, सहारं फलमार्पयत् ।।१४०॥ अजापुत्रः स तां वाचमाकण्डै ति व्यचिन्तयत् । ममैतद्देवतादत्तफलस्य प्रथम फलम् ।।१४१॥ गतं तैरश्च्यमेतस्य, रम्यं मत्यत्वमागतम् । एकाकिना न गन्तव्यमित्यर्थेऽभूत्सखा च मे ॥१४२ ॥ देवताधिष्ठितैमन्त्रफलचूौषधाम्बुभिः । जन्तो रूपपरावतः श्रूयते नात्र संशयः ॥ १४३॥ इत्यालोच्य समादाय, तदर्पितफलस्रजौ । चचाल साधतेन, शाखामृगनरेण सः ॥ १४४ ॥ वीक्ष्याऽस्ताचलचूलस्थमजापुत्रस्त्वहर्पतिम् । शाखामृगनरं प्रोचे, मुग्धवैदग्ध्यवागिति ॥१४॥ हासोच्छ्वासितकैरवोद्यदलिनीध्वान-वागीतिभिः, संसूच्याऽनटस्तमोयवनिका यत्प्राप्य निष्क्रामति । तन्नक्षत्रविचित्रपात्रसुभगव्योमै करङ्गाङ्गणे, तामुत्क्षिप्य वयस्य ! पश्य भविता राज्ञः प्रवेशोऽधुना ॥१४६।। प्रदोषसमये देवकुलिका तावपश्यताम् । भीषणाऽत्राऽहमेवेति, भुवोक्षिप्ताङ्गुलीमिव ॥१४७॥ अथ तौ खिन्नसर्वाङ्गी, वासार्थ तत्र जग्मतुः । शाखामृगनरः सुप्तो, जागत्ये जासुतः पुनः॥१४॥ तदा च यक्षवेश्मान्तरकस्मादतिनिभरः । समुद्दयोतोऽभवद् ध्वान्तकान्तारदावपावकः । १४६॥ अजापुत्रस्तमुद्दयोतं, वीक्ष्य दक्षजनाग्रणीः। उत्थाय शनस्तत्र, जगाम भ्रमसम्भृतः ॥१५॥ R॥ १३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy