SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथम: परिच्छेद ॥२१॥ अजापुत्रकथान्तर्गता रत्नमालाकथा। यदादिशति तातो मे, तत् कुर्वेऽतः परं खलु । स्त्रीणां स्वेच्छापरावृत्तिः, स्वकुलेन्दोहिं लाञ्छनम् ॥ ७८॥ ततोऽमात्योऽवदद्वत्से !, युक्तमर्थ प्रकुर्वताम् । नहि कूटप्रयोगोऽपि, स्यादपवादकारणम् ॥ ७९ ॥ स्त्रीणां चेच्छीलरक्षाऽभूत्तत्प्रवादाद्भवेन भीः । सतीत्वचन्द्रिकायां हि, मज्जन्त्यकीर्तितारकाः ॥८॥ तद्वत्सा स्वप्रतिज्ञातं, विदधातु त्वराश्चिता । यथातथापि राज्ञोऽस्य, कार्या ह्याज्ञा सुते ! त्वया ॥१॥ रत्नमाला ततः प्रोचे, तात ! कारय सत्वरम् । याम्यायां दिशि जैनेन्द्र, देववेश्म समुन्नतम् ॥२॥ पुरेऽत्र देवगेहेषु, सङ्गीतं याः प्रकुर्वते । तासां मध्यादथकैका, कलानिष्ठामुपेयुषी ।। ८३ ॥ आकृष्य द्रव्यदानेन, नवेऽत्र देववेश्मनि । सङ्गीतस्य विधानाय, विधेया पण्यकामिनी ॥ ८४ ॥ युग्मम् ॥ परितो देवगेहं च, निष्पाद्यं पुरमुत्तमम् । मद्योग्यं सौधमेकं च, तत्र कारय विस्तृतम् ॥ ५ ॥ ताश्च पण्याङ्गनास्तत्र, वास्तव्याः स्युयथा सदा । तथा तासां स्थितिः कार्या, मासपाटकसूत्रणात् ॥८६॥ तथैव कारितं सर्व, मन्त्रिणा तन्निदेशतः । यो ह्यन्यर्थ व्ययत्यर्थ, तत्काय लघु सिद्धयति ।। ८७ । ततश्च मन्त्रिपुत्री सा, रङ्गाचार्यादधीतिनी । गीते नृत्तेऽथ वीणायां, मृदङ्गे तालवंशयोः॥८८॥ यथावद्दत्तसड़केतदासीभिमृदुवाणिभिः । चित्तानुवृत्तिशीलाभिमनोज्ञात्रीभिरश्चिता ॥ ८ ॥ गत्वा सा पुरसौधानि, यथायोग्यं विभज्य च । पण्यस्त्रीभ्योऽर्पयामास, रत्नमाला स्वयं ततः ॥१०॥ ददावलङ्कृतीस्ताभ्यो, विस्फूर्जद्रत्नदन्तुराः । अन्यथाऽपि प्रसादेन, यथोचितमदाबहु ॥ ११ ॥ ।२११॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy