________________
चन्द्रप्रभस्वामि
प्रथम: परिच्छेदः
चरित्रम्
॥२१॥
अजापुत्रकथान्तर्गता रत्नमालाकथा।
कृत्वा केलिं वरोद्याने, सौधेऽगान्नृपतिस्ततः । अभाणीन्मन्त्रिणं देहि, मह्य त्वं तनयाँ निजाम् ॥ ६४ ॥ सर्वमेतत्त्वदीयं तद्गृहाण रोचतेऽत्र यत् । इत्युक्तो मन्त्रिणा भूपो, रत्नमालामुपायत ॥६५॥ तस्यामेव तमस्विन्यां, गत्वा रहसि भूपतिः । क्षुद्रभावात् समादिक्षद्रत्नमालामिति स्फुटम् ॥६६॥ यावत्ते तनयो न स्यात्तावत् स्थेयं पितुगृहे । पुत्रे जाते पुनः शीघ्रमागच्छेमम सद्मनि ॥ ६७ ।। मयासि परिणीतैव, नासि स्पृष्टाऽपि पाणिना । रन्तव्यो न परः कोऽपि, पुत्रो जन्यः स्वकौशलात् ॥ ६८॥ क्षुद्रादेशमिति श्रुत्वा, राजानं प्राह धीमती । राजादेशः प्रमाणं मे, विशेषः श्रूयतामसौ ।। ६६ ।। यथादिष्टस्त्वया स्वामिस्तथा जन्यः सुतो मया । वाह्यश्च शिरसा त्वं हि, ध्रुवमुपानही निजे ॥ ७० ॥ इति प्रतिज्ञामाधाय, भूमिमाहत्य पाणिना । ययौ मन्त्रिसुता वेश्म, पैतृकं मानिनीवरा ॥ ७१ ।। चिन्तया जग्रसे साथोपविश्य रहसि क्षणम् । यथाकार्य तथाकार्यमालोच्य चेतसा ततः ॥७२॥ गत्वाऽऽख्यन्नृपतेर्षाचं, चद्रादेशं हि मन्त्रिणे । मन्त्री प्रोवाच वत्से तत् , कि कर्तव्यं त्वयाऽधुना १॥ ७३ ॥ रत्नमाला ततः प्रोचे, नैतन्मे तात ! दुष्करम् । परं कूटप्रयोगोऽत्र, कार्यसिद्धौ प्रगल्भते ॥ ७४ ॥ सच लज्जाकरः स्त्रीणां, कुलीनानां प्रवादकृत । यदपकीर्तिकृल्लोके, तन्न कार्य विवेकिभिः॥७५ ॥ अथ च भूभुजा क्षुद्रादेशोऽयं प्रददे मम । मया चोरीकृतः सम्यगविचार्य चेतसा ॥ ७६ ॥ गजनिमीलिकां कृत्वा, स्थीयते वा ततोऽपि मे । एवमेव हतं जन्म, रण्डाया इव दुःसहम् ॥ ७७ ।।
॥२१॥