SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि प्रथमः . |परिच्छेदः चरित्रम् ॥२०॥ सा बुद्धया वीक्षमाणाऽस्थानित्यं तद्गतमानसा । रत्नाङ्गदनृपे पुत्रदुःखप्रतिकृतिक्रियाम् ॥५०॥ तिर्यगजन्म परित्यज्य, प्राप्यैव जन्म मानुषम् । उच्चैोत्रामात्यपुत्री, शशंसानशनं निजम् ॥ ५१॥ नीतिसारगृहे राजो, वडवाः कतिचित् किल । मन्त्रिजात्याश्वसंयोगादन्तर्वन्याऽभवन्क्रमात् ॥ ५२ ॥ रत्नमालापि विज्ञाय, निजाश्वयोगगर्भिणीः । राज्ञस्ता वडवाश्चित्ते, मुमुदे बुद्धिशालिनी ॥ ५३॥ क्रमेण ताः प्रसूताश्च, सुलक्षणान् किशोरकान् । स्थानपालस्ततो गत्वाऽऽचख्यौ राज्ञेऽश्वजन्म तत् ॥ ५४॥ हृष्टो राजा ददौ तस्मै, पारितोषिकमात्मना । तदैव चाप्यथादिक्षदानयाश्वाः सहार्भकैः ॥ ५५॥ स गत्वा वडवा यावद्गृह्णाति सकिशोरकाः । रत्नमाला ततोऽभ्येत्य, न्यवारयत् किशोरकान् ॥ ५६ ।। स्थानपालः पुनर्गत्वा, महीशाय व्यजिज्ञपत् । किशोरकाणां व्याषेधं, स्वामिन् ! मन्त्रिसुता व्यधात् ॥ ५७ ॥ कथमित्यथ विज्ञातु, बृहत्पुरुषमादिशत् । गत्वाऽमात्यसुतां पृच्छ, किं दधासि किशोरकान् ? ॥ ५८ ॥ एत्यामात्यसुतां सोऽथाप्राक्षीद्वयाषेधकारणम् । साप्यूचे स्युः पितुः पुत्रा, इति राजा न वेत्ति किम् ? ॥ ५ ॥ मदीयाश्वस्य संयोगादेते जाता किशोरकाः । इति सम्बन्धबन्धेन, धृता ह्य ते मया खलु ॥६॥ बृहत्पुमानथो राज्ञे, व्यजिज्ञपद्यथातथम् । तच्छु वा नृपतिर्दधेऽमषकोपौ स्वचेतसि ॥ ६१ ॥ वसन्तसमये प्राप्तेऽन्यदोद्यानं समीयिवान् । राजा रत्नाङ्गदोऽपश्यद्रत्नम ला पुराऽऽगताम् ॥ ६२ ॥ अमात्यस्य सुता सेयमिति ज्ञात्वा महीपतिः । स्मृत्वा चाश्वनिषेधं तं, तस्यामनुशयं दधौ ॥ ६३॥ अजापुत्रकथान्तर्गता. रत्नमालाकथा। |॥२०६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy