________________
चन्द्रप्रभस्वामि चरित्रम्
॥२०८॥
त्रिव प्रदक्षिणीकृत्य, जिनं तदनु साग्रतः । प्रणम्य त्रिजगन्नाथं नातिदूरे ह्यु प्राविशत् ॥ ३६ ॥ त्रिभिर्विशेषकम् ॥ ततो देवाचकं भक्त्या, शुकी प्रोचे यदत्र भोः । द्वारोर्ध्व देहलीदेशे, श्लोकमेकं लिख स्फुटम् ।। ३७ ।। रत्नाङ्गदनृपादेशात्, समर्प्य नन्दनं शुकी । मृताचानशनं कृत्वा, नाभेयस्य पुरोऽत्र तु ॥ ३८ ॥ लेखयित्वा श्लोकं कृत्वा साऽनशनं परम् । त्रिभिश्च वासरे: प्रापदायुषः प्रान्तमन्यदा || ३६ || तीर्थन्मृतेः पुरतः कृतानशनभावतः । शुकीजीवः सुता जज्ञे, नीतिसारस्य मन्त्रिणः ॥ ४० ॥ क्रमात् प्रवर्धमानाऽभून्मूर्त्तिभूतेव किं शची १ । रत्नमालेति तस्याश्च पितृभ्यां विदधेऽभिधा ॥ ४१ ॥ साक्रमाद्योधनं यूनां चित्तमोहनमासदत् । नानाक्रीडाभिरानन्दात, सखीभिः क्रीडति स्वयम् ॥ ४२ ॥ रत्नमालाऽन्यदोद्यान परिपाट्या जगाम तत् । उद्यानं यत्र चक्रे सा, जिनाग्रे ऽनशनं शुकी ॥ ४३ ॥ उद्यदर्शनात्किञ्चिदुन्मनीभावमन्वभूत् । दृष्ट्वा च देवचैत्यं तत् दृष्टान्तः प्रविवेश सा ॥ ४४ ॥ आलोक्याद्यार्हतो मूर्त्तिमुच्छृङ्खल मनर्गलाम् | आनन्दामृतमग्नेव, रत्नमाला बभ्रुव सा ।। ४५ ।। आनाय्य साथ दासीभ्यः, पूजामष्टविधां ततः । शुचिवस्त्रा स्वयं भूत्वा, सानर्चादिजिनं मुदा ॥ ४६ ॥ ततश्च पुरतो भूत्वा यावद्वन्दितुमाददे । वस्त्रान्तमग्रपाणिभ्यां तावच्छ्लोकं ददर्श सा ॥ ४७ ॥ श्लोकं निरुप्य सा जातिस्मरणं प्राप तत्क्षणात् । अज्ञासीच्च शुकीपुत्रवृत्तं स्वं पूर्वजन्मजम् ॥ ४८ ॥ अमर्षं दधती राज्ञि, स्मृतपुत्रार्पणात् चणात् । यथाविधि नमस्कृत्य, देवानात्मगृहं ययौ ॥ ४६ ॥
प्रथमः
परिच्छेदः
अजापुत्रक
थान्तगता
रत्नमाला
कथा ।
॥२०८॥