________________
चन्द्रप्रभ
प्रथमः परिच्छेदः
स्वामि चरित्रम्
॥२०७॥
अजापुत्रकथान्तर्गता रत्नमालाकथा।
राजाऽमात्यवचो न्याय्यमभिनन्द्य ततः स्वयम् । हस्तन्यस्तशुकद्वन्द्वो, धर्माधिकरणं ययौ ॥ २२ ॥ तत्र चाधिकृतान दत्तगौरवान् सचिवान् स्वयम् । पप्रच्छापत्यवादं तं, पक्षपाती शुकस्त्रियाम् ।। २३ ॥ नीतिशास्त्राण्यथानीय, विलोक्यापत्यनिर्णयम् । ऊचुर्नाथ ! पितुः पुत्रो, मातुर्भवति पुत्रिका ॥ २४ ॥ इति श्रुत्वा नृपो नीति, परतन्त्रोऽवदच्छुकीम् । त्वं शुकायार्पयापत्यं, नीतिदृष्टमिदं शुकि ! ॥ २५ ॥ रोदयन्तीक्षक नारीवर्ग सा रुदती स्वयम् । उवाच भूपमेतत्ते, सम्मतं नृपसत्तम ! १ ॥ २६ ॥ राजाह न शास्त्रदृष्टमन्यथाकतु मीश्महे । शुकी प्राह त्वदादेशादर्पितोऽयं सुतो मया ।। २७ ।। किन्तु लेखय पत्रेषु, किलेदृक्षं विधि नृप ! । यदवश्यं पितुः पुत्रो, नान्यस्य कस्यचित्ततः ॥२८॥ लेखितेषु नृपेणाशु, विध्यक्षरेषु सा शुकी । स्नेहादालिङ्गय चाघ्राय, मूनि पुत्रमदोऽवदत् ॥ २६ ॥ गर्भक्लेशसहैवास्मि, न लभ्यं ते सुखं मया । तथापि शरदां लक्षं, जीव पुत्र ! मदाशिषः ॥ ३०॥ एतावदेव सम्भाव्यं, जीवितव्यं ममापि हि । विना पुत्रं प्रियं चापि, मानिनीनां न जीवितम् ॥ ३१ ॥ इत्युक्त्वाऽश्रूणि मुक्त्वा च, मुहुरालिङ्गय वक्षसा । त्यक्त्वा तत्र सुतं बालमुड्डीयागाक्वचिच्छुकी ॥ ३२ ॥ शुकः स्वपुत्रमादाय, कानने क्वापि जग्मिवान् । हुतापत्यां शुकी शोचन , ययौ स्वं वेश्म पूर्जनः॥३३॥
इतश्च कीरिका पुत्रवियोगान्मतु मिच्छती। महोद्यानस्थिते क्वापि, श्रीनाभेयजिनालये ॥ ३४ ॥ दृष्टा मूर्ति प्रभोरुद्यद्रोमाङ्कुराङ्गदन्तुरा । अन्तश्च भावनाच्छिन्नकर्मपुञ्जसमाशया ॥ ३५ ॥
॥२०७॥