SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि प्रथमः परिच्छेद चरित्रम् ॥२०६॥ अजापुत्रकथान्तर्गता रत्नमालाकथा। शुक्यूचे तर्हि गच्छावः, श्रीवल्लभाभिंधे पुरे । तत्र रत्नाङ्गदो राजा, यद्वक्ता तत्करिष्यते ॥ ८ ॥ इति निश्चित्य कीरा सा, पुत्रमादाय यत्नतः । पुरोगेण शुकेनाथ, ययौ श्रीवल्लभे पुरे ।।१।। रत्नसिंहासनं शोणं, शक्रप्रतापपुञ्जवत् । आक्रम्यासेदुषो राज्ञोऽकस्मात्पुर:शुकोऽपतत् ॥ १०॥ कुतः शुकोऽयमायामीदिति मोदिनि भूपतौ । चञ्चूगृहीतपुत्रा सा, ततश्चागाच्छुकप्रिया ॥ ११॥ राजा रत्नाङ्गदो दृष्टा, सापत्यं कीरयुग्मकम् । कौतुकादग्रहस्ताभ्यां, कीरद्वन्द्वमथाग्रहीत् ॥ १२ ॥ निःश्वस्य कीरिकाऽऽचख्यौ, राज्ञे वृत्तान्तमात्मनः । ममाङ्गजं कथं नाथ !, याचतेऽयं शुको बलात् १ ॥ १३ ॥ शुकः प्रोवाच भो राजन् !, अहं बीजी किलास्य तत् । याचयामि सुतं स्वं तु, ततः कोऽत्र ममानयः १ ॥ १४ ॥ राजाऽथ चिन्तयामास, शुकद्वन्द्वमिदं मिथः । विरक्त व्यलीके कापि, स्नेहो निर्वाहमेति न ॥ १५ ॥ त्यजन् कीरों शुकः पुत्रं, स्वेनेवादानुमिच्छति । अनन्यशरणा कीरी, तं नापयितुमीहते ॥ १६ ॥ पुरुषत्वाच्छुकः सैष, वतिष्यते यथातथा । एकापत्या वराकीयं, भविष्यति कथं शुकी ? ॥ १७ ॥ तच्छुक्यै तनयोऽवश्यं, समर्प्य इति निश्चयः । स्त्रीत्वात्त दैन्यपात्रां स, शुक्यां साो नृपोऽवदत् ।। १८ ॥ शुक्याः पुत्रो भवेदेष, येनानन्यगतिह्य सौ। ततश्च स शुकः प्रोचे, वेत्सि नीति न किं नृप ! १ ॥ १६ ॥ नीतिसारस्ततो मन्त्री, प्रोचे राजानमादरात् । नाथाय निर्णयो देयो, न स्वामिना स्वयं खलु ।। २० ।। प्रष्टव्याः किन्तु ते वृद्धा, नीतिशास्त्रविदो हि ये । सत्कीर्तिर्वापकीर्तिर्वा, पञ्चभिः सह सह्यते ॥ २१ ॥ ।२०६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy