________________
चन्द्रप्रमस्वामि चरित्रम्
परं सखि ! पुमांसोऽमी, तावद्दम्भविजृम्भिणः । यावबुद्धिविलासोऽत्र, नावलानां प्रगल्भते ॥३०३ ॥
॥ जयराजकथा समाप्ता॥
प्रथमः परिच्छेदः
श्रतः किं नु त्वया राजा, रत्नागदा सुधीरपि । मूर्ना ह्यु पानही सोधे, वाहितो रत्नमालया ॥ ३०४ ॥ सम्भ्रमात् कुब्जिका प्राह, सखि ! नासौ मया श्रुतः । कथय तत्कथां येनाऽद्यापि रात्रिर्गरीयसी ॥ ३०५ ॥
॥२०॥
अजापुत्रक. थान्तर्गता रत्नमालाकथा।
॥ रत्नमालाकथा ॥ कामलेखा समारेभे, रत्नमालाकथामिमाम् । अस्ति श्रीपर्वतो नाम, गिरिभू मुकुटोपमः ॥१॥ तत्राऽभूत् कीरयुग्मं यत्, प्रेमशृङ्खलितं मिथः । भुङ्क्ते शेते प्रयात्येति, सदैवानन्दमेदुरम् ॥ २ ॥ मन्थरप्रेमलीलानि, दिनानि समुपेयुषी । अन्यदा सुषुवे पुत्रं, शुकी निःशोकमेव हि ॥३॥ वर्द्धमाने सुते तस्मिन् , स्वपित्रोः स्नेहलालनात् । स्नेहपशु कदाप्यासीन , कलहः शुकयोमिथः ॥४॥ उच्चावचवचास्युक्त्वा, प्रश्लथप्रमबन्धना । शुक्याहातःपरं नाहं, भायो ते त्वं न मे पतिः॥५॥ ततःप्रोचे शुकः पुत्रं, मदीयं मे समर्पय । शुकी प्राहाङ्ग स्वं हि, म्रियमाणापि नार्पये ॥६॥ शुकोऽत्रीचद्ग्रहीष्यामि, बलादपि निजं सुतम् । किं न वेत्सि पितुः पुत्रो, मातुः पुत्रीत्यमस्मृतिम् ॥ ७॥
॥२०॥