________________
चन्द्रप्रमस्वामि
प्रथमः परिच्छेदः
चरित्रम्
॥२०३॥
जयराजः स्वयं स्वस्य, गुणानाख्यातुमक्षमः । परं तदनुरोधेन, सोऽचीकथद्यथातथम् ॥ २७५॥ श्रुत्वेति राजपुत्री सा, दत्त्वाऽस्मै हारमात्मनः । साध ललितया सौधं, जगामानुपलचिता ॥ २७६ ॥ पूर्वजन्मप्रियं पूर्वप्रेमाभ्यासादृशोः पुरः । पश्यन्ती तत्कथावार्ताविनोदेनानयभिशाम् ॥ २७७॥ विभातायां विभावर्यामनङ्गसुन्दरी ततः । वेत्रिण्या भूभुजे सर्व, तवृत्तान्तं व्यजिज्ञपत् ॥ २७ ॥ साङ्काश्यनगराधीशं, जयराजाभिधं नृपम् । अनङ्गसुन्दरी स्वेन, गत्वा तत्र वरिष्यति ॥२७॥ श्रुत्वेति मुदितो राजा, मुख्यामात्यमथादिशत् । सह गत्वा त्वया तत्र, कुमारी पर्यणाय्यताम् ॥ २८० ॥ हस्त्यश्वस्वर्णसामग्रीमाधायाथ स मन्त्रिराट् । पितृभ्यां स्वयमादिष्टां, पुरस्कृत्य नृपात्मजाम् ॥ २८१॥ प्रति साङ्काश्यमागन्तुमिच्छद्भिः पथिकैः श्रितः । चचालाश्वक्षुरक्षुण्णधूलिधूसरिताम्बरः ॥ २८२॥ ततः किश्चिदनुगम्य, वचोभिरनुकूल्य च । राजपुत्रीमभिष्वज्य, ललिता सा न्यवतत ॥ २८३॥ मिलित्वा जयराजस्य, पादसूत्रविमोचनात् । स्वरूपीभूय स प्रोचे, वयस्यस्तं कृतस्मितः ॥ २८४॥ स्वमदृष्टं त्वयैवैतदासाद्यतेऽपरेण न । पुण्यधीव्यवसायानां, योगो भोगाय तेऽभवत् ॥ २८५॥ राजाह राजपुत्रीयं, योग्यास्यैवेति चेतसा । तद्गोत्रदेव्या स्वप्नोऽयं, मन्ये मे खलु दर्शितः ॥ २८६ ॥ स्वीकारि कण्डकं चैतत्कार्यकारि बभूव मे । करिष्यति कदाप्येतत्काय पुरुषकार्यपि ॥२८७॥ प्रतिष्ठस्व ततो मागें, पुरोभूयैव मन्त्रिणा । मन्दगामी हि तत्सार्थ, आवा तु लघुगामिनौ ।। २८८ ॥
अजापुत्रकथान्तर्गता जयराजकथा।
॥२०॥