________________
चन्द्रप्रमस्वामि
प्रथमः परिच्छेदः
चरित्रम्
॥२०२॥
अजापुत्रकथान्तर्गताजयराजकथा।
ऊचे च ललितामुत्का, गायनं तं समानय । यथा पृच्छामि वृत्तान्तं, सर्व हंसगतं सखि ! ॥ २६१॥ . गत्वा च ललिता चख्यौ, जयराजाय भूभुजे । तस्या अनङ्गसुन्दर्या, अवस्था च वचश्च तत् ॥ २६२॥ सोऽपि सार्ध तयाऽऽलोच्य, किमप्यादिश्य कर्णयोः । व्यसृजत्तामेकां भूयः, साप्यगात् सौधमात्मनः॥२६३॥ राजपुत्रीमथोचे सा, देवि ! नायाति गायनः । किन्त्वाहैष यदायातु, राजपुत्रीह चेत् स्पृहा ॥ २६४ ॥ ततश्चालक्षितवान्य, राजपुत्री तया सह । जयराज ययौ येन, यात्यर्थी कार्यसाधकम् ॥ २६५॥ तदागमनमात्रेण, जयराजो बभूव सः। अन्तरुन्मीलदानन्दसवमानेन्द्रियव्रजः॥२६६ ॥ युष्माभिहसयोवृतं, ज्ञातमेतत्कथं १ विति । जयराज ललितया, पप्रच्छ राजपुत्रिका ॥ २६७ ।। जयराजस्ततोऽवोचच्छणु राजसुते ! कथाम् । उत्तरस्यां ककुभ्यस्ति, साङ्काश्यं नाम पत्तनम् ॥ २६८ ॥ जयराजो नृपस्तत्र, कुरुते राज्यमुत्तमम् । निधिभिधनदः कामो, रूपेणेन्द्रो नयेन च ॥ २६६ ।। ज्ञात्वा कुतोऽपि वृत्तान्तं, निजपूर्वभवोद्भवम् । राजा स्त्रीद्वेषमाविभ्रच्चरति ब्रह्म केवलम् ॥ २७०॥ यदा कदापि हंसी सा, नारीभूता घटिष्यते । भविता सा कलत्रं मे, नान्येत्यङ्गीचकार सः ॥ २७१ ।। ततश्च हंसयोवृत्तं, लेखयित्वा पटेषु सः। मादृशामर्पयामास, द्रष्टु देशान्तरेषु ताम् ॥ २७२ ॥ राजादेशाद्ममाम्येवं, ग्रामे ग्रामे पुरे पुरे। चित्रदर्शनाच्चेत् कोऽपि, स्मरेजन्मान्तरं निजम् ॥ २७३ ॥ किंरूपः १ किंगुणः १ कीहक्कुलः १ किं पुरुषव्रतः १ । जयराजः स ते स्वामीत्यप्राक्षीत्तं नृपाङ्गजा ।। २७४ ॥
K॥२०२॥
।