________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथमः परिच्छेदः
॥२०॥
ललितयेति सा प्रोक्ता, चचालानङ्गसुन्दरी । मान्यं लोकवचो येन, नोल्लङ्घय स्निहता कचित् ।। २४७॥ ललितादिसखीवृन्दस्वच्छन्दानन्दमोदिनी। राजपुत्री समभ्येत्य, राजादिष्टा समाविशत् ॥ २४८॥ जयराजनृपस्वान्तचकोरामृतदीधितिः । अनङ्गसुन्दरी पट्यान्तरिता दृष्टिमाक्षिपत् ॥ २४६ ॥ तदृष्टथा ज्योस्नयेष, क्षीरसागरवन्मुदा । आश्लिष्टोऽधान्नवोल्लासिगीतिगर्जितमूर्जितम् ॥ २५०॥ वेत्रयष्टया पृथक् स्पष्टं, दर्शयश्चित्रचित्रितम् । चरित्रं हंसयोर्गीतं, तस्यानुसारि गायति ॥ २५१ ॥ करुणामिश्रितै गीतैः, करुणेन च सयोः । चरित्रेण नृपो जो, ससभः साश्रुलोचनः ॥ २५२ ॥ अनङ्गसुन्दरी पुर्वजन्मवृत्तं यथातथम् । दृष्ट्वा श्रुत्वा च सा प्राप, शोकप्रमोदविस्मयान् ॥ २५३ ॥ अजानतीव ललिता, तामृचे सम्भ्रमात्सखि ! । यच्चया कथितं मेऽभूत्तत्त्ववृत्तं प्रगीयते ॥ २५४ ॥ ललिता राजपुत्रीं च, भाषमाणां मिथः शनैः। दृष्टा स गायनः प्रीतिमनिर्वाच्या जगाम च ॥ २५५॥ व्याचष्टे कोऽपि तद्गीतं, कोऽपि हंसं निनिन्द च । तादृग तनयवात्सल्यं, हंस्याः सर्वोऽपि तुष्टुवे ॥२५६ ॥ गीतानुरागतः कोऽपि, हंसीकारुण्यतः परः । गायनस्वरमाधुर्यात् , कोऽपीति मुमुदे सभा ॥ २५७ ॥ अनङ्गसुन्दरी त्वेषा, स्ववृत्तश्रवणादभूत् । मवृत्तान्तः कथं ज्ञातोऽमुनेति ज्ञातुमुत्सुका ॥ २५८॥ गायनोऽयमिति स्वर्ण, दीयमानमपि स्वयम् । अगृहन् भृभुजा स्नेहाजयराजो व्यसज्यत ॥ २५ ॥ यथास्थानं ततो राजपत्नीषु चलितास्वियम् । अनङ्गसुन्दरी तूर्ण, ययौ सौधमथात्मनः ॥ २६०॥
अजापुत्रकथान्तर्गताजयराजकथा।
॥२०१॥