SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ न्द्रचप्रमस्वामि चरित्रम् प्रथम: परिच्छेदः ।१६६। अजापुत्रकथान्तर्गता जयराजकथा। सकृदानीय तोयं च, सिञ्चन्तं ससुतां प्रियाम् । व्याघुट्याशु पुनर्यान्तं, सरस्यत्रैव वारिणे ॥२१॥ पक्षिश्वापदसंछन्ने, सरस्यौत्सुक्यगामिनम् । शृङ्गिणा केनचिच्छृङ्गेणाहतं मृतमेव च ॥२२॥ इति चित्रपटे वृत्तं, चित्रयित्वा यथास्थितम् । राजा तदनुसारीणि, गायनान्युदयोजयत् ॥ २२१ ॥ द्रव्यदानादकार्षीच, चतुरः पृष्ठगायनान् । सम्पाद्य तेषां गीतानि, कलकण्ठः स्वयं नृपः ।। २२२ ॥ पुरे प्रववृते गातु, द्वितीय इव तुम्वरुः । गीतेनाक्षिप्तचित्तश्च, पूलॊकस्तमथावृणोत् ॥ २२३ ॥ न केवलं कृपालूना, निष्कृपाणामपि क्षणात् । आईयद्धृदयं चख्यौ, वृत्तं चित्रे स हंसयोः॥ २२४ ॥ परित्यज्य जनः सर्वमवश्यकार्यमप्यगात् । तत्र गायति यत्रैष, गीतं वश्यकरं यतः ॥ २२५॥ स्थाने स्थाने स गीतेन, प्रीणयन् गीतवेदिनः । प्रतिवेश्म बभूवाशु, वर्णनीयकलध्वनिः ॥ २२६ ॥ सोऽहंप्रथमिकापूर्वमाढ्याढयतरनागरैः । नित्यसेवोपरोधेन, वेश्मन्याकार्य गाय्यते ॥२२७॥ न पारितोषिकस्वर्ण, गृह्णात्यपि कुतोऽपि सः। प्रत्युतैष परेभ्यो हि, दत्ते हृष्टः स्वतोषतः ॥ २२८ ॥ एनं श्रोतु परित्यक्तविषया अपि विभ्रति । उत्कण्ठोत्कलिका यत्स्युरीदृशा निस्तुपा गुणाः ॥ २२६ ॥ ललिता तु तथैवागात् , परिवाजिकया मता । अनङ्गसुन्दरीपा, निगूढात्ममनोरथा ॥ २३० ॥ शब्दकरसनिमग्नमाधाय स पुरीजनम् । गन्तुमन्यत्र मिथ्र्यव, निश्चक्राम पुरादहिः ॥ २३१ ॥ लोकोऽपि त्यक्तसर्वस्वो, धावंस्तमनु निर्ययौ । अहो ! विषयग्राहिण्यं, सार्वजन्यमिहधते ॥ २३२ ॥ ॥१६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy