________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथम: | परिच्छेदः
॥१८॥
अथ सा ललिता चित्तेऽवधार्य तत्कथाप्रथाम् । तदन्यवार्ताव्याक्षेपीत्तचित्तं ह्यन्यतोऽनयत् ॥ २० ॥ ततोऽनुज्ञाप्य तां राजतनयां ललिताऽगमत । स्वस्थानं निशि चख्यौ च, राज्ञे व्यतिकरं तु तम् ॥ २०६ ॥ राजा निश्म्य वृत्तान्तं, मित्राख्यातं पुनः पुनः । राजपुत्री मनश्चौरी, तबुद्धिं प्रशशंस सः॥२०७॥ अपृच्छच्च धियं मित्राद्राजपुत्रीकरग्रहे । पर्यालोच्य स्वचित्ते स, वयस्योऽचीकथन्मतिम् ॥ २०८ ॥ ततश्चित्रपटं चित्रं, कारयामास भूपतिः । तदेव हि सरस्तत्र, विन्ध्यस्याधो ह्यलेखयत् ॥ २०६॥ ज्वालाजटालं दावाग्निं, परो लक्षभुजं तु किम् ? । दह्यमानावृक्षोत्थफेनरोमन्थचर्विणम् ॥ २१० ॥ आगच्छन्तं पयःपूरमिवाशु तत्सरः प्रति । इतस्ततस्ततो नश्यत्पक्षिश्वापदघस्मरम् ॥ २११॥ तत्कालप्रसूतां हंसीं, त्राणायादिशतीं प्रियम् । अधस्तात्पक्षतेय॑स्तबालापत्यां रुददृशम् ॥ २१२ ।। हंसं च दयितापुत्ररक्षायै चिन्तयाऽऽकुलम् । पुनः पुनः प्रियादेशाद्गतं स्थानान्तरे क्षणे ॥२१३॥ स्थानान्तरं निराबाधमपश्यन्तं क्वचित्ततः । भ्रमं भ्रमं पुनः स्वं तन्नीडं सत्वरमागतम् ॥ २१४ ॥ विना तत्र प्रियां पुत्रमेकं च तौ परौ सुतौ । दह्यमानौ दवार्चिष्मज्ज्वालाभिर्वीक्ष्य मूञ्छितम् ॥ २१५॥ पुनराश्वस्य गत्वा च, सरस्याकुलपक्षिणि । कष्टात् सलिलमानीय, चञ्च्चा सिञ्चन्तमात्मजौ ।। २१६ ।। गतजीवौ च तौ मुक्त्वा , प्रेक्षमाणमितस्ततः । प्रियां च तनयं चैव, गतं बकस्थलोपरि ॥ २१७॥ अहंन्मूतः पुरो दृष्वोत्खातश्वासां प्रियां ततः। तज्जीविताशया नेतु, नीरं यान्तं सरः प्रति ॥ २१८॥
| अजापुत्रक. थान्तर्गता जयराजकथा।
॥१९८॥