________________
'चन्द्रप्रभस्वामि
चरित्रम्
॥१६७॥
ततस्तत्तादृशि प्रेमिण, हंसोडत्याचीत् चणेन यत् । तन्मे सखि ! नरद्वेषश्चेत साऽङ्गीकृतोऽधिकम् ।। १६१ ॥ पुमांसः पश्य पुस्त्वं नोत्तमा अप्यधमा इव । कुलीनां शीलपां नारीमस्वतन्त्रां त्यजन्ति ये ॥ १६२ ॥ श्रुत्वैतल्ललिता तस्याः, पूर्व जन्मविरागतः । पुरुषद्वेषजन्यं हि, कुमारीत्वमथावदत् ॥ १६३ ॥
१६८ ॥
अनङ्गसुन्दरि ! त्वां हि किश्चिद्वच्मि शृणोषि चेत् १ । सखि । स्थातव्यमित्थं हि कियत्कालं पतिं विना १ ॥ १६४ ॥ तस्य यद्यपि हंसस्य, मृत्युभीतिमुपेयुषः । त्वय्यभूदपराधो यः, स्मर्यते जन्मकोटिंषु ॥ १६५ ॥ तथापि ते नरद्वेषः, तु स्यादुचितो नहि । विवेको मृत्युभीभाजां किं नु स्यात् किल देहिनाम् १ ॥ १६६ ॥ मृत्युभीतस्त्यजत्येव, पितृमातृप्रियासुतान् । वज्रभीत्या त्यजन् सर्वं मैनाकोऽब्धौ पपात यत् ॥ १६७ ॥ सख्यं ते मयि यद्यस्ति, मन्यसे चेद्वचो मम । उपयच्छस्व तत्किञ्चित्कुलीनं नरपुङ्गवम् ॥ अनङ्गसुन्दरी प्राह, किमन्यद्धनमुच्यते । न पाणिग्रहणं मे स्यादत्र जन्मनि केनचित् ॥ १६६ ॥ तैरश्च्येपि हि दृष्टाभ्यां ददे याभ्यामयं भवः । तावेव मोक्षदौ पादौ नाभेयस्य गतिर्मम ॥ २०० ॥ सको ललिता प्राह, जडे ! कदाग्रहाऽसि किम् १ । न वेत्सि पितरौ द्विष्टवरां त्वां वीक्ष्य दुःखिनौ ॥ २०१ ॥ त्यक्त्वा कदाग्रहं तत्त्वं भणतः पितरौ हि यत् । ममानुरोधतश्चापि, प्रीतिर्यत्र वृणीष्व तम् ॥ २०२ ॥ राजपुण्याह मे हंसजीव एव पतिर्भवेत् । सोऽपि क्वापि नरीभूतो भावी यत्तत्र मे रतिः ॥ २०३ ॥ नापरस्ताव दिन्द्रोऽपि पतिः स्यान्मम कश्चन । सखि ! सैंष ग्रहो मेऽभूत्तत्कोपि क्वापि तोषभाक् ॥ २०४ ॥
प्रथमः
परिच्छेदः
अजापुत्र क थान्तर्गता
जयराज -
कथा ।
॥१६७॥