SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ K चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः ॥१६॥ कैश्चित्प्रक्षिप्यमाणापि, पात्यमानापि कैश्चन । मधमानाऽपि चान्यैश्वान्योन्यसम्मर्दनार्दनात् ॥ १६३॥ उपयु परि चासीनमजद्भिः प्रतितीषु भिः। स्वजीवरक्षाकृतये, प्रेरयद्भिमिथोर्मिभिः ॥ १६४ ॥ सरः प्रच्छादितं मूलान द्रष्टुमपि चोत्सहे । किं पुनातुमम्भस्तद्दुरापं बोधिबीजवत् ॥ १६५ ॥ भ्रमं भ्रमं सरोऽपश्यं, ग्रहीतु सलिलं क्वचित् । प्रापं चान्तरमेकत्र, चञ्च्याऽगृह्ण पयस्ततः ॥ ॥ १६६ ॥ यावदायामि नीडे स्वे, तावत्पश्याम्युदर्चिषा । दह्यमानान् सुतान् बालान् , वेल्लतः क्रन्दतः क्लमात ।। १६७ ॥ हा ! हतास्मीति करुणं, क्रन्दन्ती पुत्रवत्सला । तेषामुपरि क्षिप्त्वा च, नीरं द्राक्तानुदक्षिपम् ।। १६८॥ एकचञ्चुरहं नेतुमशक्ता ह्ये कहेलया । ततो हताऽहमुत्पाद्य, पुत्रमेकं गतान्यतः ।। १६६॥ तत्रापि व्यानशे भूमिर्जङ्घालेन दवाग्निना । अक्षमा तत्र मोक्तु तं, पुनरागां निजालयम् ॥ १७०॥ तत्रापश्यं सुतौ स्वीयौ, दग्धौ हतदवाग्निना । ततो दुःखश्लथाङ्गया मे, सुतश्चञ्चुधृतोऽपतत् ॥ १७१ ॥ अन्यौ तावन्मृतौ पुत्रौ, जीवत्येकोऽयमर्भकः । एनं रक्षामि चेत्कापि, माता माता तदाऽस्म्यहम् ॥ १७२॥ इति विचिन्त्य निर्भीका, वात्सल्याद्दववहितः । वेगान्यग्भूय किश्चिच्च, दग्धं ह्यु दक्षिपं सुतम् ॥ १७३ ॥ ततश्चोर्ध्वशिखो वह्निः, किल मोचयितु सुतम् । स्फुरज्ज्वालावरत्राभिः, परितः पाशमक्षिपत् ।। १७४ ॥ ज्वालाभिस्ताभिरग मे, ज्वलत्कृतमितस्ततः। ततो भूवङ्गता क्लीवा क्षतपक्षपदा तदा ॥ १७५ ॥ ततः सरसि तत्रैव, मध्ये त्वस्ति बकस्थलम् । निचितं सर्वतो नानापक्षिभिर्जीविताकुलैः ॥ १७६ ॥ अजापुत्रकथान्तर्गता जयराजकथा। ॥१६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy