SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेद ॥१६४॥ अजापुत्रकथान्तर्गता जयराज कथा। इति मयि वदन्त्या द्राक्, प्रेरितेवाग्निमण्डली। नीडं प्रति लुलोठाराद्दहन्ती परितोऽखिलम् ॥ १४६ ॥ ततस्तानि ममापत्यान्युच्चैश्चक्रन्दुराकुलम् । वहिना दह्यमानं च, वीक्ष्याहं नीडमात्मनः॥१५॥ तत्कालप्रसवेनार्ताऽप्यानीयानीय तल्लतः । पयश्चञ्चुपुटेनाहमसिञ्चं नीडमात्मना ॥१५१॥ भूयो भूयोऽपि सिञ्चन्त्या, नोडं पुत्रांश्च मे ततः । गत्यागतिक्लमोऽत्यर्थ, बाधामाधाच्छरीरके ॥१५२॥ इतस्ततश्च पर्यस्तजीवाच्छादितमादितः । बभूव सरसोऽप्यम्भोऽप्यशक्यग्रहणं मया ॥ १५३ ॥ पुनहसो मया प्रोक्तः, प्राणेश ! किमुपेक्षसे ? । पश्यतस्ते म्रियन्ते हा ! मत्पुत्रा दावदाहतः ॥ १५४ ॥ इत्युक्तः सोऽप्यनुक्त्वैव, क्वाप्यगानभसा द्रुतम् । तत्प्रेम तच्च वात्सल्यं, तस्य मृत्युभयाद्गतम् ॥ १५५ ।। स्वस्य प्राणान् गृहीत्वाऽस्य, गच्छतो जीवितं कियत् १ । कृतघ्नः स्त्रीषु पुत्रेषु पितृषु म्रियते रटन् ॥ १५६ ॥ धिग धिग तं निस्त्रपं हीनं, निर्ममत्वं सुनिर्दयम् । यस्तादृग्व्यसने दीना, मामत्याक्षीसपुत्रिकाम् ॥ १५७॥ अन्योऽपि व्यसनाद्वीररुध्रियेतोपकारिभिः । किं पुनः पुत्रभाण्डानि, लभ्यानि भूरिभाग्यतः ॥ १५८॥ यतःन स स्यात् पितृषु स्नेहो, न देवे नापि सद्गुरौ । न मित्रे नापि वित्ते च, यादृक् पुत्रेष्वकृत्रिमः॥१५६ ।। स दुरात्मा मम प्रेम्णा, मा गृह्यता हतः शठः । दह्यमानान् सुतान् पश्यन् , गृहीतः कृपयापि न ॥ १६० ॥ ततो हताशा भूयोऽपि, तद्वर्त्म प्रेक्ष्य बह्वथ । प्रवृत्ता पुनरानेतु', कष्टादपि सरःपयः ॥ १६१ ॥ सहन्ती तत्र केषाश्चित् , शृङ्गताडनमुत्कटम् । केषाश्चित् पक्षघातं च, केषाश्चिच्चञ्चुचर्वणम् ॥१६२ ॥ ११४
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy