SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथम: परिच्छेदः ॥१३॥ अजापुत्रकथान्तर्गता जयराजाकथा। ततोऽस्माकमपुण्येन, पर्वतेऽस्मिन् दवोऽलगत् । ज्वालाभिर्विहितः प्रोच्चैः, प्राकारः परितो गम् ॥१३५॥ सोऽथ वृक्षलत पक्षिश्वापदानथ तापसान् । धावतो नंष्टुमसोषीनिघ्नन् ज्वालाचपेटया ॥ १३६ ॥ सर्व हि भस्मसात्कुर्वन्नुवन्नृक्षदिधक्षया। सरांसि शोषयंस्तापाद्दावोऽऽगानः सरस्यथ ॥ १३७॥ बयांस्यन्यान्यथोडीय, कृताक्रन्दानि कानिचित् । आसन्नाग्निज्वलत्पाथस्तडागेऽह्वाय बुबडः ॥१३८॥ कानिचिन्नभसा गन्तु', प्रवृत्तानि दवाग्निना । अभ्र लिहशिखाश्लेषात्पातितानि भुवस्तले ॥१३९॥ कानिचिद्विविशुः पके, कोटरेष्वथ कानिचित् । तीरात्तीरं परिभ्र मुः, कानिचिजीविताशया ॥१४॥ बभूव नश्यतां व्योम्नि, तापानिपततां भुवि । वहिना दह्यमानानां, ताराक्रन्दितमुच्चकैः ॥ १४१ ॥ तच्छु त्वाऽथ मया प्रोचे, हंस ! प्राणेश ! रक्ष माम् । सपुत्रां गन्तुमन्यत्र, क्लीवां प्रसवकष्टतः॥१४२॥ पञ्चभिः कुलकम्॥ हंसोऽपि परितो वीक्ष्य, वटवटदिति स्वनैः । प्रज्वल्य पततो मूलाल्लतावृक्षान् दवाग्निना ॥ १४३॥ सानूनि च गिरेश्चर्णीभूतानि मरुता क्षणात् । कोष्णान्येव विधूतानि, कुकूलानीव सर्वतः ॥ १४४ ॥ दवदाहभयाद्गन्तु', धावतः परितो मृगान् । पततश्च पुनर्दावे, वह्नौ निह तभूतले ॥ १४५॥ हस्त्यादिश्वापदैः पिण्डीभृतरुपयु पर्यथ । विलूननलिनीनालं, प्रच्छादितं निजं सरः॥१४६ ॥ जातमृत्युभयः कम्पमानात्मा शुष्यदाननः । गतापत्यप्रियास्नेहोऽस्थादुदासीन एव सः ॥ १४७॥ वैरीव हि दहन्नागादावस्तत्र सरोन्तिके । प्रिय ! त्रायस्व त्रायस्व, ममापत्यानि वह्नितः॥१४८ ॥ १६३॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy