________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथम: परिच्छेदः
॥१६॥
उदियाय ततो भानुराताम्रस्तमसि धा। गृह्णन् वह निजं तेजो, न्यासं वर्तयितुं जनम् ॥ ३॥ स परिव्राजिकामेकामधिकृर्ता स्मरार्चने । पप्रच्छ राजदुहितुर्वृत्तान्तं निश्चयाय ताम् ॥१४॥ सा परिव्राजिका प्राह, चन्द्रचूडस्य भूपतेः । अनङ्गसुन्दरी नाम, पुरुषद्वेषिणी सुता ॥६५॥ वयस्यः प्राह तां कश्चित्तया परिचयोऽस्ति ते १। साह बाढं यतो नित्यं, देवार्चा कारयाम्यहम् ॥ १६ ॥ राजाऽऽह कथमेतस्याः, पुसि द्वेषोऽथ साऽब्रवीत् । पुराऽपि पृष्टं बहुभिः, सा नाख्यद्वेषकारणम् ॥ १७॥ इत्याख्याय मठी प्राप्ता, सा परिव्राजिका क्षणात् । राजाप्युपायलाभाय, बुद्धिमाराधयनिजाम् ॥ ८॥ प्रापोपायं नृपोऽहाय, कण्डकात् स्त्री करोम्यमुम् । ततश्चास्यास्तपस्विन्याः, स्यादेष परिचारिका ॥१६॥ ततस्तामनुगच्छन्त्याः , स्त्रीत्वात्परिचयस्तया । अस्यापि स्यात्ततश्चित्तं, तस्या विज्ञायते खलु ॥१०॥ मित्रं प्रत्याह राजाऽथ, स्त्रीत्वकार्यथ कण्डकम् । त्वं तत्प्रभावतो नारीभूय याहि तपस्विनीम् ॥१.१॥ तां परिव्राजिकां स्निग्धविनयेनानुरञ्जय । यथा राजसुतासौधे, विश्वासावां नयत्यसौ ॥ १०२॥ इत्यालोच्य वयस्यस्य, बबन्ध कण्डकं पदे । भूत्वा च स्त्री तदैवागात , स परिव्राजिकामठे ॥१०३॥ . तयाऽऽतिथ्यं ततश्चक्र, स्वागतप्रश्नपूर्वकम् । तिष्ठ त्वमत्र निश्चिन्ता, भव शुश्रूषिका मम ॥ १०४॥ एकाकिन्या ममैषाऽभूत , सहायेति मुदं गता । सा परिव्राजिका तस्यै, मुहुश्चक्रे ऽनुवर्त्तनाम् ॥ १०५॥ सुरूपत्वाल्ललितेति, नाम्नाऽहृत्तां तपस्विनी । एषाऽपि ललितानाम, स्वस्य ज्ञात्वोत्तरं ददौ ॥ १०६॥
अजापुत्रकथान्तर्गता जयराजकथा।
| ॥१६॥