________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथमः परिच्छेद
॥१६॥
अजापुत्रकथान्तर्गताजयराजकथा।
वाचं संघृणु हे पिक ! द्रुतमिह त्वं हंस ! खञ्जीभव, व्याकोशं विजहीहि पङ्कज ! भज त्वं भद्र। निद्रां मृग!। वैवयं व्रज राजचम्पक ! यतः साभ्येति नः प्रेयसी, यद्वक्त्रेण कलङ्कितः प्रतिकृतिस्पर्धा दधानः शशी ॥१॥ इति कर्णामृतं सूक्तमाकानन्दिते नृपे । वेत्रधारी ततोऽभ्येत्य, प्रोचे सर्पत भो ! इतः ॥ ८२ ॥ यतोऽभ्येति सुता राज्ञो, नृदर्शनपराङ्मुखी । उद्यानं द्रष्टुमायाता, क्रीडिष्यति सखीयुता ॥८३॥ ततोऽन्यत्र गतोऽह्वाय, भूपो दध्यावियं किल । भवेत् सा स्वप्नदृष्टेव, मन्मनः स्निग्धमत्र यत् ॥ ४ ॥ सैवेयं वा नवेत्येवं, ज्ञास्यामि कुत ईदृशम् ? । यद्वा द्राक्षालताकुञ्ज, निलीयेमा विलोकये ॥ ८५॥ ततो राजा समित्रोऽपि, प्रारुह्य द्राक्षमण्डपम् । आगच्छन्तीं विलोक्यैनां, सैवेयमित्यमन्यत ॥८६॥ मनःस्थेन वनस्थेन, द्विधेनैष मनोभुवा । आसन्नोद्यानसुप्रापैः, पुष्पेषुभिरताडयत ॥८७॥ ततः सा वनमालोक्य, ययावक्षभिताशया । असंस्तुतमपि स्वान्तमादायैव महीपतेः ॥ ८॥ चैतन्यमात्रमालम्ब्योत्ततार मण्डपान्नृपः । नतस्तस्यैव कामस्य, प्रासादे निस्सहोऽपतत् ॥८६॥ दृष्टा चन्द्रमसं श्रुत्वा, पिकी स्पृष्टोऽथ वायुना । ततश्चोवाच सोद्वेगापस्मारः स स्मरं प्रति ॥१०॥ चन्द्रः किं नु करोल्मुकैदहति मामुच्चाटयत्युच्चकै, रावा किं नु पिकी चिकीः किमनलीभूयानिलो वाति यत् ।। चूताश्चाङकरतर्जनीभिरभितः किं तर्जेयन्त्यत्र को, नाज्ञा ते कुरुते मनस्यसि वसन् रेऽस्ति कस्ते स्मर! १॥३१॥ इति राजा स्मरावस्थानिस्सहाङ्गः कथञ्चन । दीर्घा तमस्विनी वेल्लत्तनुयष्टिनिनाय सः ॥ १२॥
K||१८६॥