SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथमः परिच्छेदः ॥१८७॥ इति स्तुत्वा पुरश्चैत्यवृक्षस्याधः समेत्य सः । छायासु क्वापि सुष्पाप, समित्रोऽपि महीपतिः ॥ ५३ ॥ ततो विद्याधराः केऽपि, दिवाप्यास्येन्दुसुन्दराः। मिथः स्निग्धोक्तिपीयूषजलकेलिप्लुतात्मकाः ॥ ५४॥ विमानमध्यादुत्तीर्य, बहिर्देवगृहात स्थिताः । व्यलोकन्त नृपं सुप्त, रूपेण जितमन्मथम् ॥ ५५ ॥ युग्मम् ॥ ततो दध्युर्मनस्येवं, पश्येयुर्यदि नः स्त्रियः । ततोऽस्मासु विरज्यता, रमेरनमुमेक हि ॥ ५६ ॥ तत्कुर्मोऽमुस्वियं मन्त्रगर्भोद्यत्सूत्रवन्धतः। न स्त्रियः स्त्रियमिच्छन्ति, रन्तुरूपवतीमपि ॥ ५७ ॥ इत्यालोच्य मिथो विद्याधरा वबन्धुरादरात् । पादेऽस्य भूभुजः सूत्रं, नारीरूपं गतश्च सः॥ ५८ ॥ विद्याधरास्ततो देवमानचुनेमुरादिमम् । सङ्गीतमपि कृत्वा च, यथाऽऽजग्मुस्तथा ययुः ॥ ५६ ॥ राज्ञा च जयराजेन, बध्नन्तः सूत्रमादरात् । बहुलीभूतनिद्रेण, ज्ञाता विद्याधरा न हि ॥६॥ ततो विद्याधरीवृन्दममन्दं रूपसम्पदा । स्पर्द्धानुबन्धिनेपथ्यशृङ्गारितवपुलतम् ॥ ६१॥ रतरूपसहस्र वा, बह्वीभूता रमाऽथवा । किं वा शचीसमूहोऽयमिति तकमिदं दधत् ॥ ६२॥ आगाच्चैत्यपुरोवृक्षमुत्ततार विमानतः । अपश्यञ्च नृपं नारीरूपधरं ततो मिथः॥६३॥ त्रिभिर्विशेषकम् ।। विलोक्योचुरहो! रूपमस्या लावण्यमप्यहो!। त्रैलोक्यवनितासगरामणीयकवर्णिकाम् ॥ ६४॥ मा स्म पश्यदिमां कोऽपि, विद्याधरयुवा विह । इत्येनां पुरुषीकुर्मोऽन्यथाऽस्मान्न्यकरिष्यति ॥ ६५ ॥ ततो विद्याधरस्त्रीभिर्बद्धेऽङ्घौ सूत्रकण्डके । भूयोऽपि नृपतिर्जज्ञे, स्वाभाविकस्वरूपभृत् ॥ ६६ ॥ अजापुत्रकथान्तर्गता जयराजकथा। ॥१८७॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy