SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथम: परिच्छेदः ॥१८६॥ इति सर्व मया यादृग् , दृष्टं स्व पुरचेष्टितम् । तत्तादृशमिदं सर्व, चित्रेऽस्ति नृपसत्तम ! ॥ ३६॥ स्वप्नदृष्टाङ्गनास्तित्वहर्षादुत्फुल्ललोचनः । सा द्वेषेति श्रुत्वा तु, राजाऽभूचिन्तयाऽऽवृतः॥४०॥ ततः पान्थाय पाथेयं, काञ्चनं भूर्यदापयत् । मनसिकृत्य वृत्तान्तं, ततो राजाऽगमद्गृहम् ॥४१॥ ततश्च सकलं राज्यं, समये मुख्यमन्त्रिणे । सार्धमेकेन मित्रेणाऽचालीद्रमालयं प्रति ॥ ४२ ॥ वसन्तसमयेऽन्येधुरासाद्योद्यानमध्वनि । आतपाक्लान्तसर्वाङ्गो, वृक्षमेकमशिश्रियत् ॥ ४३॥ विद्यमानेव प्राग् तत्र, निद्रा श्रममपानयत् । स्वपत्रव्यजनैश्चक्रुः, कदल्यः सुखमारुतम् ॥ ४४ ॥ भृङ्गीतललद्गीति, केतक्यो विदधुमुदा । ननृतुजलयन्त्रोद्यद्ध्वनिमाद्यच्छिखण्डिनः ॥ ४५ ॥ ततश्च स्वस्वनै राज्ञो, निद्रा पिक्यो विचिच्छिदुः। मरुत्केलिपतत्पक्कफलान्याढौकयन् द्रमाः ॥ ४६॥ . आसन्नवेणीमूर्द्धस्थं, वाप्योम्भः समचारयन् । स्वागतं पुण्यपूर्णानां, कुर्वन्त्यचेतना अपि ॥ ४७॥ फलान्यास्वाध पीत्वाऽम्भः, ससखो धनमीक्षितुम् । भ्राम्यन् ददर्श नाभेयचैत्यमेकं नृपोऽद्भुतम् ॥ ४८॥ अहो! भवाब्धौ द्वीपोऽयं, दुरापोऽवापि तन्मया। यदृष्टं भ्रमतायेदं, दिष्टयादिजिनमन्दिरम् ॥ ४६॥ इत्यूचानो मुदाश्रुणि, मुश्चन्नन्तरथाविशत् । दुरान्नत्वा समासेन, स्तुत्वा प्रभुमवन्दत ॥ ५० ॥ स्वाभाविकललद्रूपं, शृङ्गारितमथार्चया । यौवनावतारमिव, प्रभुं वीक्ष्य नृपोऽवदत् ॥ ५१॥ जित्वान्तरायकम, प्राप्तशिवश्रीकरग्रहणललित ! । पूरय मनोरथान्मे, स्वामिन् ! यत् सर्वदस्त्वमसि ॥ ५२ ॥ अजापुत्रकथान्तर्गता जयराज कथा। ११८६॥ ।
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy