SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथमः परिच्छेदः ॥१८॥ अजापुत्रकथान्तर्गता जयराजाकथा। नानादेशागताः पान्था, वीक्ष्येदं चित्रमत्र ते । चेत्पुनः सपुरामेना, केपि जानन्ति देवतः॥२५॥ राजाप्येतन्निशम्याथ, युक्तमित्यभिमन्य च । परितो नगरं सत्राण्यतिरम्याण्यचीकरत् ॥ २६ ।। ततश्च सर्वतः पान्थाः, श्रुत्वा तत्सत्रमाययुः । कृतस्नानाश्च भुक्त्वा ते, तच्चित्रं वीक्ष्य यान्ति च ॥ २७ ॥ अन्यदा पथिकः कोऽपि, विशन् सत्रं ददर्श तत् । चित्रं स तदभिज्ञाय, मुश्चन्नश्रुणि तस्थिवान् ॥ २८ ॥ सत्रामात्यस्तथा दृष्ट्वा, तं पप्रच्छ कथं नु भोः !। पान्थ ! रोदिषि ? स प्रोचे, चित्रं मे नगरे ह्यदः ॥ २६ ॥ देशाद्देशं परिभ्राम्यंश्चिराच्चित्रगतं पुरम् । तदवस्थं विलोक्याहं, मुदितो ममतावशात् ॥३०॥ सत्राध्यक्षस्ततो राजे, तं गत्वाशु न्यवेदयत् । राजापि हि चिरादुत्को, वेगान्सत्रमुपागमत् ॥ ३१॥ स्वयं पप्रच्छ तं पान्थं, किमिदं दृष्टवानसि १ । वास्तेऽध्वनि कियत्यास्ते, चित्रानुसारि तत् पुरम् ? ॥ ३२॥ पान्थः प्राह महाराज!, पुरेऽवात्सं पुरात्र हि । दारिद्रयोपद्रतः किन्तु, देशाद्देशं व्रजाम्यहम् ॥ ३३॥ प्रासादागृहश्रेणिवापीकूपसरोवरैः । यथा निवेशनैतिं, पुरमेतद्रमालयम् ॥ ३४ ॥ दक्षिणस्यां दिशि ख्यातं, रमालयपुरं ह्यदः । इतः पुरादिदं भावि, योजनानां शताष्टके ॥ ३५॥ सभायामुपविष्टोऽयं, चन्द्रचूडो नृपोत्तमः । इदमन्तःपुरं ह्यस्य, तस्यैते सचिवादयः ॥ ३६ ॥ नानाक्रीडाभिरानन्दात् , क्रीडन्तीयं नृपाङ्गजा । अनङ्गसुन्दरी नामान्तरे यौवनबाल्ययोः ॥ ३७॥ . पुरुषद्वेषिणी त्वेषा, पितृभ्यामर्थिताऽपि हि । नेहते यौवनारम्भोत्फुल्लश्रीकान् नृपानपि ॥३८॥ 1१८५॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy