________________
प्रथमः परिच्छेदः
चन्द्रप्रमस्वामि चरित्रम् ॥१३॥
अजापुत्रकथान्तर्गता जयराजकथा।
श्रत्वेति गुरुवाक्यानि, भक्त्याऽजातनयस्ततः । जग्राह च गृहस्थानां, द्वादशाऽपि व्रतान्यसौ ॥ १३ ॥ पुनः प्रणम्य स गुरुन् , पप्रच्छ ज्ञानभास्करान् । कीदृशो मे भवः पूर्वश्चक्र तत्र मया च किम् १॥ १४ ॥ पुरस्तादिव पश्यन्तो, ज्ञानेन गुरवस्ततः । पूर्वजन्मकां तस्य, यथावृत्तामचीकथन् ॥ १५॥
॥जयराजकथा॥ अस्ति पूः शैलिका नाम, यत्रास्ति धनदो जनः । सर्वोऽपि तेन जिग्ये सा, तयैकधनदालका ॥१॥ तत्राभूद्भूपतिर्नाम्ना, लक्ष्मीबुद्धिः प्रतापवान् । यस्याज्ञातिका नित्यमुपनिन्ये रिपुश्रियः ॥ २॥ जिनशासनकल्पद्रोः, स करोति प्रभावनाम् । तद्भावादर्जयत्येष, मोक्षप्रतिभवं शुभम् ॥ ३ ॥ सोऽन्यदा दिव्यपल्यङ्के, निद्रावशीकृतात्मकः । दरतो रुदतीं तारं, नारी काश्चिदथाशृणोत् ॥ ४ ॥ तत्ताररुदितश्रुत्या, समुत्तस्थौ महीपतिः । सम्यग् विज्ञातुमागाच्च, पुरतो मणिकुट्टिमे ॥ ५ ॥ विज्ञाय महतीं रात्रिं, स नक्षत्रानुसारतः । कषा रोदिति दूरस्था १, कथं वापीत्यचिन्तयत् ॥ ६ ॥ तत्पृच्छामि स्वयं गत्वा, करुणाक्रन्दकारणम् । नेहग्दीनविलापाः स्युमेहादुःखं विना क्वचित् ॥ ७ ॥ इत्यन्धकारपटक, प्रावृत्य नृपतिस्ततः। चचाल सौधाद्यामिकदृशं दूरेण वश्चयन् ॥८॥ शब्दानुसारतो गत्वा, खड्गमित्रोऽब्रवीच ताम् । किं रोदिषि १ शुभे! बेहि, निश्येका किं विभेषि न ? | ॥ मुहुश्च पृच्छति नृपे, रुदती नोत्तरं ददौ । किन्तु सा रोदिति भृशं, रोदयन्ती तरूनपि ॥१०॥
K
॥१८३॥