________________
चन्द्रप्रम
महासत्त्वचूडामणे ! स भगवान् गुणानुरागी दिवस्पतिः स्वमुखेन मध्ये देवसभं भवतः सत्चस्तुतिमकरोत् । अहं तु त्वत्सत्त्वस्यानभिज्ञत्वादसहिष्णुरेवमकार्षम् । तदेतदज्ञानस्य
स्वामि
प्रथमः परिच्छेद
चरित्रम्
मे क्षमस्व ।
॥१८॥
देवः-महासत्वावतंस ! अलममुना विस्मयेन, अस्म- स्कृतमिदं कपटनाटकम् ।
त्रस्तः पारावतः क्रुद्धः, श्येनश्च तमनुव्रजन् ।। युष्मत्सत्त्वपरीक्षार्थ, सर्वमेतन्मया कृतम् ।।
(राजा सवीडमधोमुखस्तिष्ठति) देव:नास्त्येव वज्रायुधचक्रिणोऽन्यः,
कुत्राप्यहो! सत्त्ववतां धुरीणः । श्लाघामिमामिन्द्रमुखानिशम्य,
क्रोधात्कृतं यत्तदिदं क्षमस्व ॥
(सपश्चात्तापं च) गुणानुरागिणः केऽपि, गुणिनं ख्यापयन्त्यलम् । अधमाः केऽपि निन्दन्ति, तद्गुणानसहिष्णवः ।।
अजापुत्रकथान्तर्गताश्रीवजायुधकथा।
A
राजा-पुरन्दरोऽप्यस्मच्छ्लाघां करोतीति महान् विस्मयः।
देवः-भूमिवासव ! मैवमाशतिष्ठाः । यतोऽस्माभिरपरस्त्वमिन्द्रो मन्यसे ।
राजा-(सविलक्षस्मितम् ) वज्रायुधेतिनामसाम्यान्मामपीन्द्रेण तुलयन्तु भवन्तः । देव:वज्रायुधस्त्वमेवासि, न पुनः स्वर्गिणां पतिः। सपक्षान् भूभृतोऽभैत्सीः, पक्षानेव स भूभृताम् ।।
॥१८॥