________________
चन्द्रप्रभ
स्वामि
चरित्रम्
॥१७८॥
पततुलितानि निजवपुर्मांसशकलान्युत्कृत्योत्कृत्य तुभ्यं प्रयच्छामि ।
पारा०- ( सरोमाञ्चं स्वगतम् ) भगवान् पाकशासनः समीचीनवचन इव सम्पत्स्यते ।
श्येन: - ( क्षामाक्षरम् ) एवं भवतु ।
राजा - ( सोत्साहम् ) कोऽत्र भोः ! १ । ( प्रविश्य )
राजाध्यक्षः - अयमस्मि समादिशतु महाराजः । ( राजा - राजाध्यक्षस्य कर्णे एवमेव । )
(नेपथ्ये तुमुलध्वनिः )
श्येन: - ( सास्रम् ) नमो नमस्तुभ्यमहङ्कारवीराय । पुरु० - ( सखेदम् ) देव ! कोऽयमस्थाने साहसोत्कर्षः १ । शरीरेणामुना नाथ !, त्रातव्यानि जगन्ति ते 1 एकस्य पक्षिणः कार्ये, तदेतद्युज्यते कि ? || किश्व
मायावी कोsपि देवोऽयमिति तुभ्यमचीकथम् । एतदद्यापि विज्ञाय मानिन ! मुञ्चातिसाहसम् ॥ (राजा- अमात्यवचनमवगणय्य हर्षोत्कर्ष नाटयन् पुनः
राजाध्यक्षः - आदेशः प्रमाणम् (इति निस्क्रम्य तुला मांसशकलान्युत्कृत्य प्रक्षिपति । ) मानीय च राज्ञे समुपनयति ) ।
(राजा - तुलामुपरि संयमय्य एकस्मिस्तुलाभाजने स्वहस्तेन पारापतमारोपयति, साहंकारं च शस्त्रिकया निजोरुमांसलस्थानान्युत्कृत्योत्कृत्या पर स्मिस्तुलाभाजने प्रक्षिपति ।)
लक्ष्मी:- ( सवाष्पम् ) अमश्च' ! कोऽयमम्हाणमकण्डे जनवाओ ! |
अमात्यः - स्वामिनि !
१. अमात्य ! कोयमस्माकमकाण्डे वज्रनिपातः ? ।
प्रथमः
परिच्छेदः
अजापुत्रकथान्तर्गता
श्रीवज्रा
युधकथा ।
॥१७८॥