________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथमः परिच्छेद
॥१६४॥
ततश्चासहमानस्तत्प्रशंसां कोऽपि निर्जरः । अनुवज्रायुधं सत्त्वधुरीणा इति कोपवान् ॥२७॥ देवानां पुरतो माः , शस्यन्त इति हास्यवान् । धिक् प्रभुत्वं न यत्रास्ति, विचार इति खेदवान् ॥२८॥ कुर्वे छत्रं महीं दण्डं, मेरुमित्यवलेपवान् । एषोऽहं चालयाम्येनं, सत्त्वादित्यनुवन्धवान् ॥ २६॥ विक्षमाणः ऋधा शक्र, सभायां विचिपन् दृशम् । क्षोभयंश्च सुरीवर्ग, निययौ संसदो बहिः॥३०॥ वयस्येन किलैकेनान्वीयमानः सुरः स तु । उवाच प्रथमं शौर्य, परीक्ष्योऽयं मया पुमान् ॥ ३१॥ दैवाच्च तत्र नियंढो, वीक्ष्यः सत्त्वे श्लथोऽभवन् । द्विापरीक्षितुमारब्धो, निर्वाहं याति कोऽपि किम् ? ॥३२॥ इति मित्रेण निश्चित्यावततार भुवस्तले । परीक्षावसरं वज्रायुधस्य स व्यलोकयत् ॥ ३३॥
इतश्च स कुमारोऽपि, वज्रायुधो युधि स्थिरः । उद्यानपालकेनाथ, विज्ञप्तो रचिताञ्जलिः ॥३४॥ देवागात्कामदेवस्य, वयस्यस्त्रिजगजये । मानिनीमानमुद्राणां, भङ्गेऽधिकारवान् मधुः ॥ ३५॥ क्रीडन्ति मधुमासे च, युवानः कामिनीसखाः । उद्याने मधुरोद्ानप्रीतान्तःकरणस्थिराः ॥ ३६॥ ततश्चाशु कुमारेण, कृतदर्शनकौतुकात् । आरामः सफलीकार्यः, फलितोऽपि निजैः फलैः ॥ ३७॥ इति तेन स विज्ञप्तः, कुमारः सपरिच्छदः। चचाल कृतसङ्केतः, प्रियया सह कानने ॥ ३८ ॥
अजापुत्रकथान्तर्गता श्रीवजायुधकथा।
अतः परं नाटकच्छायया कथ्यते कथा
॥१६॥