________________
चन्द्रप्रम
स्वामि
प्रथमः परिच्छेदः
चरित्रम्
॥१६२।।
॥श्रीवज्रायुधकथा ॥ अथ प्रणम्य राजाह, जैनाचार्यान् कृताञ्जलिः । जैनसात्त्विकवृत्तान्तं, समादिशत मा प्रति ॥१॥ स्वचित्ते दध्युराचार्या, यदस्मानेष भूपतिः। पप्रच्छ साञ्जसं नत्वा, तत्प्रबोधं समेष्यति ॥२॥ सम्यक्त्वमूलचारित्रज्ञानाधिगमभाग्यवान् । जिनधर्मश्रुतिश्रद्धां, स्वयमेत्यल्पकर्मकः ॥३॥ राजानं प्रोचुराचार्याः, शृणुत श्रद्धया ननु । दयादानक्षमानाथां, वज्रायुधकथां प्रथाम् ॥४॥ प्राग्विदेहे समस्तीह, नगरी रत्नसश्चया। या सद्विवेकसम्पत्योः, पाणिग्रहणवेदिका ॥ ५॥ प्रजानां न्यायतः क्षेमकारः क्षेमङ्करो नृपः । तत्रास्ति पृथिवीतन्व्या, यज्जीवितेन जीवितम् ॥६॥ तस्य चास्ति सती धर्मनरेन्द्रास्थानमण्डपा । जगन्मित्रं कलत्रं तु, रत्नमालेति नामतः ॥ ७॥ सुस्वप्नसूचितः प्राज्यसाम्राज्यप्रभुतास्पदम् । तयोर्जज्ञे सुतो वज्रायुधो वज्र महीभृताम् ॥ ८॥ यो बाल्यादपि विज्ञातकर्तव्यक्रमसङ्गमः । साक्षिमात्रं कलाचार्यमाधायाध्यैष्ट सत्कलाः ॥ ९॥ स्वीकुर्वन् यौवनं रम्यं, स्वीकृतो रूपसम्पदा । ऊरीकुर्वन् गुणग्राम, विद्वद्भिररीकृतः ॥१०॥ अङ्गीकुर्वन् महादानं, यशसाङ्गीकृतो मुद्रा । त्यजन् दोषकुलं दूरात् , सन्त्यक्तो व्यसनैरपि ॥ ११॥ गृह्णन् परगुणान् काले, माहात्म्येनाप्यगृह्यत । कुर्वन परप्रशंसां च, चक्रे ख्यातः प्रशंसया ॥१२॥ आश्लिष्यन् विक्रम स्नेहादाश्लिष्टो विजयश्रिया । पोषयन्न्यायमेवोच्चै नाश्रिभिरपोष्यत ॥१३॥
अजापुत्रकथान्तर्गता श्रीवजायुधकथा ।
॥१६२॥