SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रमस्वामि चरित्रम् प्रथम परिच्छेदः ॥१६॥ मुनिशापवशात्कीरशृगालत्वं पुरागतौ । कुन्तलं वसुभूति च, पुरोऽद्राक्षीत् कृताञ्जलिम् ॥ ४१७॥ यमनिकान्तरे चैव, द्रष्टुं नाटकमागताम् । सुतारां भाषमाणां च, सखीं शुश्राव भूपतिः॥ ४१८॥ पुरतश्च सुसङ्गीतरसनिमेनचेतसाम् । नृपामात्यप्रभृतीनामद्राक्षीत्संसदं निजाम् ॥ ४१६॥ प्रतिमन्दिरमैशिष्ट, क्रियमाणं च नागरैः । नृत्यत्पुरन्ध्रिविश्राण्यमानदानं महोत्सवम् ।। ४२० ॥ प्रतीहारमुखप्राप्तविजिज्ञपयिषून् जनान् । दूतो नमतः प्रेक्ष्य, किमेतदित्यचिन्तयत् ॥४२१॥ किं नु स्वमो मया दृष्टः १, किं वा मे मनसो भ्रमः १। किं वा कस्यापि दिव्यस्य, चित्रमेतद्विजम्भितम् ? ॥४२२॥ ततश्च तापसो व्योग्नि, दत्ताशीरभवत्पुरा । यथासि वासवेनोक्तस्तथा दृष्टोऽसि साच्चिक ! ॥ ४२३ ॥ अनुभूतं त्वया यच्च, तत्सर्व हि कृतं मया । तत्क्षमस्व चिरं जीया:, स्वसत्त्वेन महीपते ! ॥ ४२४ ॥ अनपेक्षो यद्यपि त्वं, परदत्तश्रियं प्रति । तथापि त्वयि प्रयुक्तकष्टार्जिताघशुद्धये ॥ ४२५ ॥ ददामि तपसा स्वेन, त्वन्नाम्नाऽस्तु पुरी तव । अन्तरिक्षे भवांस्तत्र, क्रियात्साम्राज्यमद्भुतम् ।। ४२६ ॥ इत्युक्त्वा तापसो दिव्यशक्त्याथ क्वचिदप्यगात् । पूर्ववच्च हरिश्चन्द्रो, निजाः पालयति प्रजाः ॥ ४२७॥ इति तापसनिर्दिष्टां, हरिश्चन्द्रकथां तथा । श्रुत्वाथ मुमुदे श्रीमानजापुत्रो महीपतिः ॥ ४२८॥ . अजापुत्रका थान्तर्गता सत्यहरिश्चन्द्रकथा ॥ इति हरिश्चन्द्रकथा ॥ ॥१६॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy