SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभ स्वामि चरित्रम् ॥१६०॥ अद्यायं प्रातरेवागात्समित्पुष्पकृते वने । पदभाग्यादसौ दष्टो, दुष्टेन भुजगेन हा ! ॥ ४०३ ॥ विनात्मीयान्न कोप्यस्य, विषस्योत्तारणं व्यधात् । आत्मेव हि विना धर्माच्छून्यं बन्धु विना जगत् ॥ ४०४ ॥ हरिश्चन्द्रस्ततो दध्यौ, धिग्मां व्यसनपातिनम् । एकत्र श्वपचः क्रुद्धोऽन्यत्र पुत्रव्ययक्लमः ॥ ४०५ ॥ कथं मे वक्ष्यतो हस्तौ, पुत्रवस्त्राहृतौ दहा !!! | स्वाम्यादेश मकतु यन्नैवोजस्वि मनो मम ॥ ४०६ ॥ अथवा मे पुत्रमृत्यों को विचारो १ यदस्म्यहम् । श्वपचाधीन देहस्तद्यद्वक्ति स करोमि तत् ॥ ४०७ ॥ अन्यथा स्यां प्रतिज्ञातभ्रष्टः सत्त्वकलङ्कितः । सच्चैकतानवृत्तीनां नाऽपत्याद्यनुरागता ॥ ४०८ ॥ इति सत्त्वानिलोद्भूतापत्याबन्धः स सात्त्विकः । भूत्वा पराङ्मुखोऽशतो, याचितु ं स्फुटया गिरा ॥ ४०६ ॥ अपाच्छादनमिति, संज्ञया प्रतिपादयन् । हस्तं प्रसारयामास, हरिश्चन्द्रः प्रियां प्रति ॥ ४१० ॥ सुताराऽपि च तदभिप्रायं स्फुटमजानती । उच्चिक्षेप करे दातु, रोहिताश्वं मुहुस्ततः ॥ ४११ ॥ अगृह्णति हरिश्चन्द्रे, पुत्रं साह ब्रवीषि किम् १ । न जानामि तवैतां हि संज्ञां त्वं ब्रूहि तत्स्फुटम् ॥ ४१२ ॥ धैर्यसन्दंशका कृष्टवचनः सात्त्विकोऽवदत् । देवि ! तिष्ठतु वत्सोऽयं, वत्साच्छादनमर्पय ९ ॥ ४१३ ॥ ततः कल्पद्रुमोद्भूत पुष्पवृष्टिरभूद्दिवः । अहो ! सत्त्वमहो ! सत्वमिति गीश्व व्यजृम्भत ॥ ४१४ ॥ राजाऽप्यपश्यदात्मानमयोध्यायां निजौकसि । अलङ्कृतमहासिंहासनं स्वसदसि स्थितम् ॥ ४१५ ॥ रोहिताश्वमपश्यच्च, क्रोडे क्रीडन्तमात्मनः । अश्रान्तकान्तिरत्नाङ्कहारस्फारश्रियं मुदा ॥ ४१६ ॥ प्रथमः परिच्छेदः अजापुत्रक थान्तर्गता सत्यहरि श्चन्द्रकथा ॥१६०॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy