________________
चन्द्रप्रभस्वामि
प्रथम: परिच्छेदः
चरित्रम्
सत्त्वेऽजापुत्रकथा
चन्द्रापीड ! महीश ! त्वामेषोऽजापालवालकः । अन्ते द्वादशवर्षाणां, लक्षसैन्यो हनिष्यति ॥८॥ उक्त्वैवं सा तिरोभूता, यावत्तावन्महीपतिः । भयविस्मयव्यात्तास्यः, किमेतदित्यचिन्तयत् ॥८॥ निश्चितं काचिदप्येषा, पुराधिष्ठातृदेवता । ततो मयि कृतप्रीतिर्भाव्यमर्थमचीकथत् ॥८॥ अथासौ वीक्ष्य तं बालं, रक्षन्तं चरतः पशून् । निश्चिकायेति दृप्तात्मा, न किश्चिद्देवतावचः ॥१०॥ अथाऽऽह सुमतिर्मन्त्री, राजानं प्रति वन्सलः । नाथ ! दैव्यो गिरिः किं स्युः, प्रलयेऽप्यनृतस्पृशः ? ॥१॥ चित्ते चेत्तव गर्वोऽयं, यन्ममाऽस्मान्न मृत्युभीः । अयं तथापि निर्वास्यः, पुराकिमत्र दुष्करम् ? ॥१२॥ ओमित्युक्त्वा गते भूपे, मन्त्री भृत्यान् समादिशत् । मोच्यः सेष शिशुस्तत्र, यतोऽत्राभ्येति नो पुनः ॥१३॥ अजापुत्रं गृहीत्वा ते, प्रान्तरप्रान्तकानने । एकाकिनं रुदन्तं तं, मुक्त्वा स्वं पुरमाययुः ॥१४॥ ततोऽजापुत्रकः काश्चिद्दिशमुद्दिश्य जग्मिवान् । न प्राप काननप्रान्तं, भवान्तमिव मूढधीः ॥१५॥ भ्रान्त्वा बहुदिनान्येष, वनपर्यन्तमीयिवान् । व्यवसायसहायो हि, कार्यान्तं याति मानवः । ६६॥ गर्भवासादिवाऽरण्याद् बहिर्मतः प्रमोदभाक् । दवीयसी पुरी काश्चित, सोऽपश्यज्जननीमिव ॥१७॥
ऋणं यद्वद्दरिद्रस्य, स्तोकं स्तोकं प्रयच्छतः । गच्छतः शनकैस्तस्य, न पन्थाः पर्यवस्यति ॥९८॥ १. इत ऊर्ध्वम्-सं० तिरोभूताथ मातेव, देवता सा तमन्वगात् । स्थाने स्थाने ऽस्य आश्चर्य, दुर्घटं घटयिष्यति ।। इत्यधिकमुप
लभ्यते। २. पारं गच्छति ।
॥४॥