________________
चन्द्रप्रभ
प्रथमः
K | परिच्छेदः
स्वामि चरित्रम्
सत्त्वेऽजापुत्रकथा
स्वीचक्रे सा ततः शोक, परिदेवनरोदनैः । आश्लिष्टव्यसनः कष्टं, न कैः कैरभिभूयते ? ॥ ७३ ॥ यतःदृष्टमदृष्टमनिष्टं, दृष्टं कष्टं न कष्टमिह नष्टम् । कथय कथं कथयामः, संसारासारतां वचनैः ? ॥७॥ ताकपुत्रपरित्यागदुःखभल्लीनिराकृतौ । भाज्ञां कवचीकृत्य, निस्ससार बहिगृहात ॥ ७५ ॥ धिक्कुवैती किलात्मानं, पुत्रत्यजनकर्मणा । अत्याक्षीदर्भकं गङ्गा, जातमात्रं प्रगेऽध्वनि ॥ ७६ ॥ वारं वारं निवृत्यनं, चुम्बं चुम्बं शिरस्यसो । रुदती कथमप्यागाद्भादेशवशाद् गृहम् ॥ ७७ ।। तदा च तेन मार्गेण, गच्छतस्त्वरितं बहिः । अजावृन्दादजा काचिदद्राक्षीदर्भकं भुवि ।। ७८ ।। रटतश्च पुराजन्ममातेव स्नेहविह्वला । नीचभू यः स्तनं तस्य, मुखे स्तन्यार्थमक्षिपत् ॥ ७९ ॥ तस्या एवंस्थितायाश्च, प्रेरणार्थ समापतन् । पशुपालः समालोक्य, तमादाय गृहं ययौ ॥ ८०॥ तनयाभावदुःखिन्यै, भार्यायै तं समय सः । तनयो देवताभिस्ते, दत्तोऽसावित्युवाच ताम् ॥ ८१ ॥ तयापि पुत्रवत्स्नेहात् , पाल्यमानस्तु बालकः । द्वादशाब्दप्रमाणाङ्गः, सञ्जातः पृष्टिभागसौ ॥२॥ अजापुत्र इति नाम्ना, ताभ्यामाकार्यते स तु । पशुपालेन पित्रेव, साध याति पशुव्रजे ॥३॥ पशुपालेऽन्यदा तस्मिन् , बरवाधामुपेयुषि । अजावृन्दं समादाय, ययौ बालो बहिः पुरात् ॥ ८४ ॥ इतश्चाखेटकाद्राजा, निवृत्तः स्वपुरं प्रति । अजापुत्रश्रितां शीतां, तरुच्छायामशिश्रियत् ॥८॥ अथाऽकस्मात्प्रादुर्भूता, सर्वाङ्गीणविभूषणा । उवाच युवतिः काचिद्वाचमेनां नृपं प्रति ॥८६॥
॥८॥