SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथम: परिच्छेदा ॥१५८॥ अजापुत्रकथान्तर्गतासत्यहरिश्चन्द्रकथा अभूच्च तत्क्षणादेव, रूढवणवपुर्हरिः। ययौ च तापसः स्थाने, स्वे दध्यौ हरिरप्यथ ॥ ३७५ ॥ नापूर्ण मेऽभवत्किश्चित् , सर्वस्वं ददतो मुनेः । विद्याधर्या न यत्सिद्धिर्जातेति तदुनोति माम् ॥ ३७६ ॥ अरे ! क त्वं गतोऽसीति, प्राहूतः श्वपचेन सः । उपसृत्याह कर्तव्यं, मम स्वामिन् ! समादिश १ ॥ ३७७ ॥ स आहेष मृतः कोऽपि, समायाति ततो भवान् । वस्त्रं गृह्णातु गत्वेति, प्रेषितोऽगाद्धरिस्ततः ॥ ३७८॥ अशृणोच्छब्दमेकस्याः , करुणात सुतव्ययात् । हा! पुत्र ! क गतोऽसीति १, मृच्छन्त्याच स्त्रिया मुहुः॥ ३७६ ।। अहो ! दैवेन निमुक्तकरुणेन किलाङ्गजम् । व्यापादयिता निर्भाग्याऽभीष्टापत्या त्वसौ हता ।। ३८० ॥ अहो ! असारः संसारो, मर्त्यवाचामगोचरः । यदिष्टं देहिनां तत्त, ग्राहयत्येव यो यमात् ॥ ३८१॥ कथं चाहं ग्रहीष्यामि, बालस्योद्वर्धात किलाम्बरम् ? । इति मन्दपदः प्रोक्तः, श्वपचेनाशु गच्छ रे ।। ३८२॥ सभयं परिचक्राम, हरिश्चन्द्रः सुतं स्मरन् । न शुद्धय द्यदि देवी मे, तदा वत्सो म्रियेत सः ॥ ३८३॥ ततः शुश्राव करुणं, रुदन्ती वनितामिति । निर्भाग्यशेखराया मे, मृतो वत्सो हताऽस्मि हा!॥३८४ ॥ वत्सो मृत इति वाचं, प्रतिघ्नन् मङ्गलोक्तिभिः। वामाक्षिस्पन्दनेनाथ, बभूवाशङ्किमानसः॥३८५॥ सर्वस्वं मुनये दत्तं, विक्रीतौ दयितासुतौ। चाण्डालकमकृच्चाहं, किं वा मे भाव्यतः परम् ॥३८६॥ . इति चिन्तातुरो यावन्नग्रे गच्छेद्धरिस्ततः । चाण्डालपतिना प्रोक्तो, व्याघुटथे ति व्यजिज्ञपत् ।। ३८७॥ आगतोऽस्ति मृतो बाल, इति वस्त्राहतौ त्रपा । स्वाम्याह का पास्माकमाचारोऽयं गृहाण तत् ॥ ३८८॥ ॥१५॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy