SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि चरित्रम् प्रथम: परिच्छेद ॥१५७॥ अजापुत्रकथान्तर्गता सत्यहरिश्चन्द्रकथा ऊचे च परितः खड्गहस्तान् विद्याधरोत्तमान् । मा दत्तात्र प्रवेशं भोः !, श्वापदस्य नरस्य च ॥३६१ ॥ कियत्यपि कृते होमेऽभूत्प्रादुर्देवतामुखम् । हर्षान्मांसं हरिदत्ते, स्वमुत्कृत्य जुहोति सा ॥ ३६२॥ ततो गोमायुरटितं, कुण्डानि परितोऽभवत् । विषादात ततो विद्याधयू चेऽयं निवार्यताम् ॥ ३६३ ॥ सर्वः स नाश्यमानोऽपि, प्रत्युतागात्समीपगः । जजागार ततश्चारादाश्रमात्तापसः क्षणात् ॥ ३६४ ॥ किञ्चित्किश्चित्ततो विद्यामुखमधो ममज्ज च । हा हा !!! हतास्म्यपर्याप्तहोमा तत् किं करोम्यहम् १ ॥ ३६५॥ सावष्टम्भ हरिः प्राह, मा विषीद गृहाण मे। छिच्चा शिरोऽपि पर्यन्ताहुतिहोमं समापय ॥३६६॥ विद्याधर्याह क्रमशो, होमः स्याननु नाक्रमात । क्रमं च क्षमते नेष, तापसः क्रोधमावहन ॥३६७॥ अरे ! किमेतदारब्धमस्मदाश्रमभूमिषु १ । इत्याक्रोशन प्रविष्टोऽत्र, तापसः क्रोधसिन्धुरः ॥ ३६८॥ ममज्ज तन्मुखं देव्या, मध्ये कुण्डाग्नि सत्वरम् । भीता विद्याधरी चापि, काप्यगात्सपरिच्छदा ॥ ३६६ ।। ततः क्रोधात्परिभ्राम्यस्तापसस्तत्र जग्मिवान् । यत्रास्ते कृत्तसर्वाङ्गः, शाखाबद्धो हरिः श्वसन् ॥ ३७० ॥ क्षणेन तापसः किश्चिदुपलक्ष्याह विस्मयात् । अरे ! भवान् हरिश्चन्द्रः, सोऽवोचदोमिति स्फुटम् ।। ३७१ ॥ तमाह तापसः क्र द्धः, स्वर्ण कुलपतेरदाः । हरिः प्राह दिनैः कैश्चित्पूर्णीभविष्यति प्रभो। ॥ ३७२ ॥ त्वं मामभिजानासीति, पृष्टस्तेन हरिजंगौ । कौटिल्यस्त्वं महीदाने, साक्षी कुलपतेरसि ॥ ३७३ ॥ ततो माभून्मुनेः स्वर्णहानिरस्मिन् मृते वियि । औषच्या व्रणरोहिण्या, स्वेनालिम्पत्स तद्वपुः ॥ ३७४ ॥ ॥१५७।
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy