________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथमः परिच्छेदः
॥१५॥
अजापुत्रकथान्तर्गतासत्यहरिश्चन्द्रकथा
इति ध्यात्वा हरिःप्रोचे, तमुद्धं नरं मृदु । कोऽसि त्वं भोः!? कथं चेयमवस्था ते सुदुस्सहा १॥३३३॥ जाननस्मि न शक्योऽयमुद्धेन प्रभाषितुम् । परं त्वदाकृतिः पुण्या, प्रयुङ्क्ते प्रष्टुमत्र माम् ॥ ३३४॥ तदाऽऽख्याहि न शक्नोमि, द्रष्टुं ते दुस्सहा दशाम् । इति तत्प्रणयं दृष्ट्रा, प्रोवाचोबद्धपूरुषः ॥ ३३५ ॥ नाहमेतां दशा दीना, निवेदयामि कस्यचित् । यच्छोता वेत्ति यन्मत्तः, किं परित्राणमीहते १॥३३६ ॥ परन्त्वन्यभवस्नेहानुबन्धाद्वा तथोत्तमात् । उपकारपरत्वाद्वा, पृच्छते कथयामि ते ॥३३७॥ अहं काशीपतेश्चन्द्रशेखरस्यादिमः सुतः। विद्याधर्याऽस्मि पल्यङ्कादानीतोऽत्र प्रियायुतः ॥ ३३८॥ किमर्थमिति तेनोक्ते, नरः प्राहात्र सम्प्रति । मन्मांसेन महाहोम, विद्याधरी करिष्यति ॥ ३३६ ॥ क गता साऽधुना विद्याधरीति हरिणोदिते । स्नातु गङ्गानदी व्योम्ना, जगामेति जगौ स हि ॥ ३४०॥ ततो दध्यौ हरिहर्षाद्गत्वरैश्चेन्ममाङ्गकैः । विद्याधर्या भवेत्सिद्धिर्जीवितं चास्य चारु तत् ॥३४१ ॥ तमुवाच हरिः स्नेहात , प्रार्थये त्वां किमप्यहो!। स प्राहावस्थापतितं, किं त्वं प्रार्थयसेऽत्र माम् ॥ ३४२॥ हरिः प्राह दातुमलं, यत्प्रायसे तदेव हि । ततः स प्राह याचस्व, यदभीष्टं नरोत्तम ! ॥ ३४३॥ हरिः प्राह प्रयाहि त्वं, स्वं राज्यं स्वीकुरु क्षणात् । यत्कार्य तत्करिष्यामि, विद्याधर्याः स्ववष्र्मणा ॥ ३४४ ॥ पुरुषः प्राह किं ब्रूषेऽनात्मनीनमिदं खलु । मूर्खः कश्च स यः स्वार्थे, परप्राणान् व्ययिष्यति १॥ ३४५॥ तद्याहि त्वमतः स्थानाद्विद्याधर्यति सम्प्रति । तेनेत्युक्तो हरिते, भूतलन्यस्तमस्तकः ॥ ३४६ ॥
॥१५॥