SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रभस्वामि प्रथम: परिच्छेदः चरित्रम् ॥१५४॥ हरिश्चन्द्रोऽपि सूर्यास्ते, चण्डालस्य नियोगतः। व्रजन् स्मशानं दध्यौ स, कीदृग्दुर्दैवनाटकम् १ ।। ३१६ ॥ . देव्याः कर्मकरित्वेन, जाताया विप्रसद्मनि । राक्षसीवचनं देवदत्तं न्यवर्तयच्छुकः ।। ३२०॥ दैवमेव ततो मन्ये, बलवान् नापरः पुमान् । यत्तेन विहिता ह्यापत्, तेनैव हि निवर्त्यते ॥ ३२१॥ सूचीभेद्येऽपि हि ध्वान्ते, प्रविशन् गतभीहरिः । ददर्श भीषणाकार, श्मशानं निशि सर्वतः ।। ३२२॥ क्वचित्फेरण्डफेत्कार, क्वचिद्राक्षसडम्बरम् । क्वचिद्विभीषिकोद्योतं, क्वचित्कौशिकवासितम् ।। ३२३ ॥ क्वचित्प्रेतपरित्रस्तशवसंस्कारकुन्जनम् । क्वचिच्च डाकिनीमुक्तप्रोद्यस्किलकिलारवम् ।। ३२४ ॥ क्वचित्तुन्दपरिमृजनिद्रायमाणकुक्कुरम् । क्वचिद्योगीन्द्रसंसिद्धयत्साध्यविद्यावरस्वरम् ।। ३२५ ।। क्वचित्कापालिकैग ह्यमाणसत्पुण्यमस्तकम् । सर्वतोऽपि च दुर्गन्धपूरपूरितनासिकम् ॥ ३२६ ॥ उपयु परिपर्यस्तमुण्डखण्डस्खलज्जनम् । इतस्ततः श्मशानं स, पश्यन शुश्राव दुर्वनिम् ।। ३२७॥ [पञ्चभिः कुलकम् ] अहो ! आतध्वनिः सैष, मृतपत्याः स्त्रियः खलु । रुदन्तीं वारयाम्येनामित्यगात्तत्पुरो हरिः॥ ३२८॥ उवाच च शुभे! किं ते, कारणं परिदेवने ? । साह पश्याग्रतो गत्वा, न्यग्रोधे कारणं यतः ॥ ३२६ ॥ हरिगैत्वा ततोऽपश्यत्पुमांसं पूर्णलक्षणम् । ऊर्ध्वपादमधोवक्त्रं, वटशाखानियन्त्रितम् ॥ ३३०॥ अन्तर्मनः स दध्यौ च, दत्ता भूसु नये मया । मुनिकन्याधनोपाये, विक्रीतौ दयितासुतौ ॥ ३३१ ॥ जीवितस्यास्य निविण्णः, स्वयमेव पुराऽस्म्यहम् । कृत्वा परार्थं तद्गच्छेच्चेत् , किं नाप्त फलं मया १॥ ३३२॥ अजापुत्रकथान्तर्गता सत्यहरिश्चन्द्रकथा ॥१५४॥
SR No.600270
Book TitleChandraprabhswamicharitam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1986
Total Pages404
LanguageSanskrit
ClassificationManuscript
File Size7 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy