________________
चन्द्रप्रभस्वामि
प्रथम: परिच्छेदः
चरित्रम्
॥१५४॥
हरिश्चन्द्रोऽपि सूर्यास्ते, चण्डालस्य नियोगतः। व्रजन् स्मशानं दध्यौ स, कीदृग्दुर्दैवनाटकम् १ ।। ३१६ ॥ . देव्याः कर्मकरित्वेन, जाताया विप्रसद्मनि । राक्षसीवचनं देवदत्तं न्यवर्तयच्छुकः ।। ३२०॥ दैवमेव ततो मन्ये, बलवान् नापरः पुमान् । यत्तेन विहिता ह्यापत्, तेनैव हि निवर्त्यते ॥ ३२१॥ सूचीभेद्येऽपि हि ध्वान्ते, प्रविशन् गतभीहरिः । ददर्श भीषणाकार, श्मशानं निशि सर्वतः ।। ३२२॥ क्वचित्फेरण्डफेत्कार, क्वचिद्राक्षसडम्बरम् । क्वचिद्विभीषिकोद्योतं, क्वचित्कौशिकवासितम् ।। ३२३ ॥ क्वचित्प्रेतपरित्रस्तशवसंस्कारकुन्जनम् । क्वचिच्च डाकिनीमुक्तप्रोद्यस्किलकिलारवम् ।। ३२४ ॥ क्वचित्तुन्दपरिमृजनिद्रायमाणकुक्कुरम् । क्वचिद्योगीन्द्रसंसिद्धयत्साध्यविद्यावरस्वरम् ।। ३२५ ।। क्वचित्कापालिकैग ह्यमाणसत्पुण्यमस्तकम् । सर्वतोऽपि च दुर्गन्धपूरपूरितनासिकम् ॥ ३२६ ॥ उपयु परिपर्यस्तमुण्डखण्डस्खलज्जनम् । इतस्ततः श्मशानं स, पश्यन शुश्राव दुर्वनिम् ।। ३२७॥ [पञ्चभिः कुलकम् ] अहो ! आतध्वनिः सैष, मृतपत्याः स्त्रियः खलु । रुदन्तीं वारयाम्येनामित्यगात्तत्पुरो हरिः॥ ३२८॥ उवाच च शुभे! किं ते, कारणं परिदेवने ? । साह पश्याग्रतो गत्वा, न्यग्रोधे कारणं यतः ॥ ३२६ ॥ हरिगैत्वा ततोऽपश्यत्पुमांसं पूर्णलक्षणम् । ऊर्ध्वपादमधोवक्त्रं, वटशाखानियन्त्रितम् ॥ ३३०॥ अन्तर्मनः स दध्यौ च, दत्ता भूसु नये मया । मुनिकन्याधनोपाये, विक्रीतौ दयितासुतौ ॥ ३३१ ॥ जीवितस्यास्य निविण्णः, स्वयमेव पुराऽस्म्यहम् । कृत्वा परार्थं तद्गच्छेच्चेत् , किं नाप्त फलं मया १॥ ३३२॥
अजापुत्रकथान्तर्गता सत्यहरिश्चन्द्रकथा
॥१५४॥