________________
चन्द्रप्रभ-|| स्वामि चरित्रम्
प्रथमः परिच्छेदा
॥१५२॥
नास्मिन् कर्मणि देव्येषा, कारणं स्यात्कथश्चन । किन्तु कोऽपि मदुष्कर्मप्रेरितः कुरुते ह्यदः ॥ २६२ ॥ प्रविश्याग्निं ततो देव्या, दोषमाशु हराम्यहम् । अथवारिसभायां मे, नात्मा योग्यः प्रकाशितुम् ॥ २६३॥ मुनिभ्यः पृथिवी दत्ता, विक्रीता ससुता प्रिया । यत्करिष्यति दैवं तद्धरिश्चन्द्रः सहिष्यति ॥ २६४ ॥ दृष्ट्वा तां बाह्यनेपथ्यैरक्षितवपुलताम् । मन्त्रिणे पृथिवीनाथः, स्वं वितर्क न्यवेदयत् ॥ २६५ ॥ वक्त्रं चन्द्रमपाकरोति च दृशावम्भोजलक्ष्मी वचः,-पीयूषं कचसञ्चयोऽप्यलिरुचं वर्णः सुवर्ण खलु । अङ्गमें विजितं जगत्पृथगतः शृङ्गारवर्मश्रम, कृत्वा कं विजयेदतो लवणिमेवास्याः प्रियं मण्डनम् ॥ २६६ ॥ शुकोप्यथोपलक्ष्यनां, ननाम नतमस्तकः । उशीनरसुते ! देवि ! सुतारे ! स्वस्ति ते सति ! १॥२६७ ॥ राजाह किं मुहः कीर !, प्रलपस्येवमुच्चकैः ।।क सात्रोशीनरसुता ?, किं त्वं कीरोऽसि मद्यपः१॥ २१८॥ सावष्टम्भं शुकः प्राह, हरिश्चन्द्रोऽयमस्य तु । पत्नीयमित्ययमर्थोऽन्यथा स्याद्ब्रह्मणापि न ॥ २६ ॥ राज्ञा पृष्टो हरि ते, हरिश्चन्द्रो भवामि न । किन्त्वहं श्वपचस्यास्य, द्रव्यक्रीतोऽस्मि कर्मकृत् ।। ३००॥ राज्ञा पृष्टाऽङ्गना प्राह, न सुतारास्म्यहं खलु । किन्तु द्विजन्मनो वज्रहृदयस्यास्मि दास्यहम् ॥३०१॥ अरे ! विलावयस्यस्मानित्युक्तो भूभुजा शुकः । किं स्वं प्रकाशयेदेष, त्वदग्रेऽत्रेति सोऽब्रवीत् ॥ ३०२॥ मन्त्री प्राहाऽऽकृतावस्या, राक्षसीकम किं भवेत ? । ततो विचार्य कर्तव्यं, स्वामिना यद्यथोचितम् ॥३०३॥ पृष्टश्च श्वपचो राज्ञा, पाहायं मम कर्मकृत् । इति निश्चित्य राजामु, रासभानयनेऽब्रवीत् ॥ ३०४ ॥
अजापुत्रकथान्तर्गता सत्यहरिश्चद्रकथा
K॥१५२॥