________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथमः | परिच्छेदः
॥१५१॥
मण्डले मन्त्रशक्त्याथ, सनिर्घातं पपात सा । सर्वेऽप्यविभयुस्तस्या, मार्जार्या इव मूषकाः॥ २७६ ॥ सविस्मयं नृपः प्राह, मन्त्रोत्कर्षावधिययम् । य एना राक्षसी मन्त्रिमानैषीत् पश्यतां हि नः॥ २८०॥ मान्त्रिकः प्राह कर्त्तव्यमस्माभिः कृतमेव हि । यदुचितं कुरु त्वं तन्निग्रहे स्वमसि प्रभुः॥२८१॥ साक्षेपमादिशद्राजा, मन्त्रिन ! श्वपचमाह्वय । कलहंसं तमाह्वातुमादिक्षत्सचिवस्ततः ॥२८२॥ कलहंसोऽपि तत्रैव, विमुच्य शुकपञ्जरम् । जगामाथ नृपोऽवादीन्मन्त्रिन् ! किमस्ति पञ्जरे ? ॥ २८३॥ मन्त्री प्राह महाराज!, शुकराजोऽस्ति सर्व वित् । उपश्लोकय राजानं, तेनेत्युक्ते शुकोऽपठत् ॥ २८४ ॥ क्ष्माप ! त्वच्छरपातितानपि समिक्षेत्रेऽसृजा पङ्किले, पद्भारै रणकाङ्क्षिणः पुनरिभाः शत्रुनधोऽरोपयन् । स्वर्गे तत्क्षणमुद्गतान् दितिसुतानिन्द्रेण युद्धोद्धतान् , जित्वैरावणमप्यतुच्छसमरक्रीडारसं ते व्यधुः॥२८५॥ मान्त्रिका प्राह भो राजन् !, राक्षसी वोऽन्यचेतसाम् । प्रभविष्यति तत्कोऽयं, विलम्बोऽस्या विनिग्रहे ॥२८६॥ ततश्चागाच्च चाण्डालो, हरिश्चन्द्रेण संयुतः। हरिश्चन्द्रं शुको दृष्टाऽभूदुत्फुल्लाक्षिमानसः ॥२८७ ॥ प्राह च स्वस्ति ते नाथ!, भरतान्वयभूपते ! । हेरिश्चन्द्र ! नमद्भुपमौलिरत्नाङ्कितक्रम ! ॥ २८८॥ सरोष प्राह राजाऽपि, किमबद्धं प्रभाषसे १ क साकेतपतियत्र १, कीर ! त्वं विह्वलोऽसि किम् ? ॥२८॥ अथाह श्वपचं मन्त्री, कुर्वनाच्छादनामिमाम् । हरिं सोऽपि समादिक्षत् , कृत्वा सोऽपि तथैव ताम् ॥ २६ ॥ प्रत्यभिज्ञासीतिक नाम, सुतारा देव्यसौ ? हहा !! । किमेतेन हि दैवेन, हन्तव्या वयमेव हा! १॥२११॥
अजापुत्रकथान्तर्गतासत्यहरिश्चन्द्रकथा
HAKN
॥१५१॥