________________
चन्द्रप्रभस्वामि चरित्रम्
प्रथम: परिच्छेदा
॥१४॥
अजापुत्रक | थान्तर्गता सत्यहरिश्चन्द्रकथा
ततश्च परितः प्रोद्यदाक्रन्दध्वनिभिर्जितः । निलीयास्थादिव क्वापि, नगरे मङ्गलध्वनिः ॥ २५२ ॥ मृत्योर्मीता जना रक्षा, विदधत्यात्मनो यथा । प्रेरितस्तु तथा मृत्युस्तान् गृह्णाति सहस्रशः॥ २५३ ॥ श्रुत्वाऽथ दुःसहं लोकाक्रन्दं मरण पुरे। आह्वत्सत्यवसु भूपो, मन्त्रिणं चन्द्रशेखरः ॥ २५४ ॥ राजादेशात्समायान्तं, सचिवं कोऽपि. पूरुषः । अन्तरामिलितः कीरपञ्जराग्रकरोऽनमत ॥ २५५ ॥ कलहंस ! क कीरोऽयं, लब्धस्त्वयेति मन्त्रिणा । पृष्टे स प्राह 'चम्पाया, वने ह्यनमवाप्नुवम् ॥ २५६ ॥ चन्द्रशेखरराजाय, सदाप्रियविपश्चिते । सर्वशास्त्रनदीष्णत्वादिहानैषं शुकोत्तमम् ॥ २५७ ॥ इति तद्वचनं शृण्वंस्तेनैव सह मन्त्रिराट् । ययावुपनृपं नत्वा, यथास्थानमुपाविशत् ॥ २५८ ॥ सखेदं प्राह भूपालो, मन्त्रिन् ! पश्य पुरीजनः । सङ्कोचितायुदेवेन, प्रयात्यस्तं प्रतिक्षणम् ॥ २५६ ॥ न वयं दुर्नया नापि, श्लथधर्मः पुरीजनः । नृणामकालमृत्युश्च, तदन्वेषय कारणम् ? ॥ २६ ॥ ततश्च सम्भली काचित् , पुत्रीमरणविह्वला । उरस्ताडसनिःश्वासा राजानं प्राह सा क्रुधा ॥ २६१ ॥ सदैवान्यायकारी त्वं सदा पीडयसि प्रजाः । सदापि पापनिष्ठोऽसि, तेनायं म्रियते जनः ॥ २६२ ॥ मत्पुत्री नामतोऽनङ्गसुन्दरी स्मरमञ्जरी । प्रक्रीडय सुखशय्यायां, सुप्ताऽकस्मान्मृताऽस्ति हा! ॥ २६३ ॥ अहो ! कर्कशता घस्या, अहो ! निर्लज्जता गिराम् । इति ध्यायन नृपेणोक्तो, मन्त्री किं क्रियतामिति ॥ २६४॥ मन्च्याह भूपमत्रार्थे, प्रगल्भन्ते हि मान्त्रिकाः । राजा प्राहागतोऽस्तीहोजयिन्या मान्त्रिको महान् ॥ २६५॥
॥१४॥