________________
चन्द्रप्रमस्वामि चरित्रम्
प्रथमः परिच्छेदः
॥१४८॥
अजापुत्रकथान्तर्गता सत्यहरिश्चन्द्रकथा
राजाह किमिदं षेऽनुचितं सत्त्वशालिनाम् । शतशोऽपि पराभूतानाहं प्रत्यर्थिनोऽर्थये ॥ २३॥ प्रतिज्ञाभ्रष्ट ! वाचाट, पुरो नः स्वं विकत्थसे । इत्युक्ते मुनिना राजा, प्राह मुनीन्द्र ! मा कुपः ॥ २३ ॥ चण्डालस्यापि कर्माहं, कृत्वा दुष्करमप्यथ । दास्ये स्वर्णमिति राज्ञोक्तेऽभूद्रोमाश्चितो मुनिः ॥ २४॥ ततः कौपीनवासास्तु, लघुपिङ्गकचोच्चयः । दृढयष्टिकरो वृद्धो, निषादः कोऽपि चागमत् ॥ २४१ ॥ राजानं वीक्ष्य स प्रोचे, रे! त्वं कर्मकरोषि किम् ।। कर्मकृद्भवसि त्वं मे, तेनेत्युक्तो नृपोऽस्मरत् ।। २४२ ॥ रविरस्तङ्गतो लोकः, क्रायको नास्ति नो मुनिः। क्षमते तनिषादस्य, कुर्वे कर्मेति सम्प्रति ॥ २४३॥ करिष्ये कम तेऽवश्यं, राज्ञेन्युक्तेऽथ सोऽवदत् । किं किं कर्ताऽसि मे कम १, राजाहादिशसीह यत् ॥ २४४ ॥ रक्षितव्यं स्मशानं चादातव्यं मृतकाम्बरम् । अर्धदग्धानि काष्ठानि, ग्राह्याणि च चिताचयात् ।। २४५ ॥ यत्तत्रोत्पद्यते तस्याधं ही गृहाति भूपतिः। अन्यस्याधस्य भागौ द्वौ, ममैकस्ते तथा नप ! ॥! २४६ ॥ यदादिशामि कर्तव्यं, तच्च कार्य त्वया सदा। गङ्गासव्यस्मशानेशः, कालदण्डाभिधोऽस्म्यहम् ॥२४७॥ युग्मम् ।। इति श्रुत्वा नृपः प्राह, तं त्वदाज्ञाकृदस्म्यहम् । यदत्र मा प्रति स्यात्तद्दीयतां मुनये खलु ॥ २४८॥ अपवायें मुनिःप्रोचे, नमस्ते सत्त्वशालिने। नमस्ते सत्यसन्धाय, नमस्ते धैर्यसझने ॥ २४९ ॥ कालदण्डोऽपि तद्वाचं, प्रपद्य मुनये ततः । हरिश्चन्द्रेण साधं च, ययौ श्मशानमात्मनः ।। २५० ।।
इतश्च पुर्यामेतस्यामकस्मादपि देहिनाम् । वपुर्वाप्या जीविताम्भो मृत्युर्जग्राह रुग्गुणैः ॥ २५१ ॥
K
॥१४८॥